सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
[ आदितरू
कथासरित्सागरः ।

स्त्रीत्वं क्षीबत्वमेकान्तः पुंसो लाभोऽनियत्रणा । यत्र पद्यग्नयस्तत्र वार्ता शीलतृणस्य का ॥
न चैवं क्षमते नारी विचारं मारमोहिता। यदियं चकमे राशी तमकाम्यं विपन्नतम् ॥
तावच्च रत्नधिपतिः स राजा रत्नकूटतः । आजगामोत्सुकस्तूर्णं द्युचरद्विपवाहनः ॥
प्रविशंत्र सोऽपश्यत्तादृशेनापि तेन ताम्। पुरुषेण समं भार्या राजदत्तां रतिस्थितम् ॥
दृष्ट्वा जिघांसितमपि क्षितीशः पुरुषं स तम् । नावधीपादपतितं ब्रुवाणं कृपणा गिरः ॥
भार्या भीतां च मत्तां तां स वीक्ष्यैवमचिन्तयत् । मद्य मारैकसुहृदि प्रसक्ता स्त्री सती कुतः ॥
नियन्तुं चपला नारी रक्षयापि न शक्यते । किं नामोत्पातवाताली बाहुभ्यां जातु बध्यते ॥
न कृतं गणकोक्तं यत्तदिदं तस्य मे फळम् । विपाककटुकं कस्य नाप्तवाक्यावधीरणम् ॥
शीलवत्याः स्वसेतीमां जानतो बत विस्मृता । सुधायाः सहजा सा मे कालकूटविषच्छटा ॥
अथवा कः समर्थः स्यादसंभाव्यं विचेष्टितम् । जेतुं पुरुषकारेण विधेरहुतकर्मणः ॥
इत्यालोच्य न चुक्रोध कस्मैचित्तं जहौ च सः । पृष्टोदन्तं वणिक्पुत्रं राजा प्रच्छन्नकामुकम् ॥
सोऽपि मुक्तस्ततोऽपश्यन्गतिं कांचिद्वणिक्सुतः। निर्गत्याब्धौ प्रवहणं दूरादागच्छदैक्षत ॥
ततः फलहकं भूयस्तमेवारुह्य सोऽम्बुधौ । भ्रमन्पूत्कृत्य चक्रन्द मामुद्धरत भो इति ॥
तेन तं क्रोधवर्माख्यो वणिक्तद्यानपत्रगः। समुद्धृत्य वणिक्पुत्रं चकारान्तिकवर्तनम् ॥
यस्य यद्विहितं धात्रा कर्म नाशाय तस्य तत् । पदवीं यत्र तत्रापि धावतोऽप्यनुधावति ॥
यत्स तत्र स्थितो मूढस्तत्पत्न्या संगतो रहः। विलोक्य वणिजा तेन क्षेपितोऽब्धौ व्यपद्यत ॥
तावच्च रन्नाधिपतिः स राजा सपरिच्छदाम् । आरोप्य श्वेतरश्मौ तां राजदत्तामकोपनः ॥
प्रापय्य रत्नकूटं च शीलवत्याः समर्य च । तस्यै च सचिवेभ्यश्च तवृत्तान्तमवर्णयत् ॥
जगाद च कियहुःखमनुभूतमहो मया । असारविरसेष्वेषु भोगेष्वासक्तचेतसा ॥
तदिदानीं वनं गत्वा हरिं शरणमाश्रये । येन स्यां नैव दुःखानां भाजनं पुनरीहशाम् ॥
इत्यूचिवान्स सचिवैर्वार्यमाणोऽपि क्रुःखितः । शीलवूया च वैराग्यान्निश्चयं नैव तज्जहौ ॥
ततोऽर्धमर्पयित्वादावेकं साध्व्यै स्रकोषतः। शीलवत्यै द्विजेभ्योऽर्थं दत्वान्यन्नोगनिस्पृहः ॥
पापभञ्जनसंज्ञाय ब्राह्मणाय यथाविधि । ददौ गुणगरिष्ठाय निजं राज्यं स भूपतिः ॥
दत्तराज्यश्च नभसा स गमिष्यंस्तपोवनम् । आनाययच्छेतरसूिम पौराणां साधु पश्यताम् ॥
आनीतमात्रः स करी शरीरं प्रविमुच्य तत् । पुरुषो दिव्यरूपोऽभूद्धारकेयूरराजितः ॥
को भवान्किमिदं चेति पृष्टो राज्ञा जगाद सः । गन्धर्वा भ्रातरबावामुभौ मलयबासिनौ ॥
अहं सोमप्रभो नाम ज्येष्ठो देवप्रभश्च सः । तस्य चैकैव मद्धातुर्भार्या सा चातिवल्लभा ॥
स तां राजवतीं नाम कृत्वोत्सङ्गं परिभ्रमन् । एकदा सिद्धवासाख्यं स्थानं प्रायान्मया सह ॥
केशवायतने तत्र वयमभ्यचताच्युताः । प्रावर्तामहि सर्वेऽपि गातुं भगवतः पुरः ॥
तावदागत्य तत्रैकः सिद्धस्तां श्रव्यगायिनीम्। दृशा राजवतीं पश्यन्नतिष्टदनिमेषया ॥
सिद्धोऽपि साभिलाषः किं परनारीं निरीक्षसे । इति सेणैः स मद्धाता क्रुद्धः सिद्धं तमब्रवीत् ॥
ततः स सिद्धः कुपितः शत्रुमेवं तसभ्यधात् । गीताश्चर्यान्मया मूढ वीक्षितेयं न कामतः ॥
तन्मय्योनावीर्यालुः पत त्वमनया सह । पश्यैतामेव भार्या त्वं साक्षात्तत्रान्यसंगताम् ॥
इत्यूचिवान्मया सोऽथ बाल्यात्तच्छापकोपतः । हस्तस्थेनाहतः क्रीडामृण्मयश्वेतहस्तिना ॥
ततः स मां समशपथेनाहं भवताहतः । तादृक्श्वेतो गजो भूमौ भवानुत्पद्यतामिति ॥
अथानुनीतो मद्धात्रा तेन देवप्रभेण सः । सिद्धः कृपालुः शापान्तमेवमस्माकमब्रवीत् ॥
हरेः प्रसादान्मत्र्योऽपि भूत्वा द्वीपेश्वरो भवान् । गीभूतमिमं प्राप्स्यस्यनुजं दिव्यवाहनम् ॥
अन्तःपुरसहस्राणि त्वमशीतिमवाप्स्यसि । तेषां वेत्स्यसि दौःशील्यं सर्वेषां जनसंनिधौ ॥
अथैतां मानुषीभूतां स्वभार्यां परिणेष्यसि । प्रत्यक्षमेनामपि च द्रक्ष्यस्यन्येन संगताम् ॥