ततो विरक्तहृदयो दत्त्वा राज्यं द्विजन्मने । देवप्रभ यद् शन्तो वनं गन्तुं प्रवत्स्यसि ॥ १२६
तदा प्रथममुक्तेऽस्मिन्भजत्वादनुजे तव । अनया भार्यया साकं शापावमपि मोक्ष्यसे ॥ १२७
इति सिद्धोक्तशापान्त वयं प्राक्कर्मभेदतः । एवं जातः पृथग्योगाच्छाप(न्तः सैष चाद्य नः ॥ १२८
एवं सोमप्रभेणोक्ते स रत्नाधिपतिन्नृपः। जातिं स्मृत्वाब्रवीद्धन्त सैष देवप्रभो ह्यहम् ॥ १२९
एषापि राजदत्ता सा पत्नी राजवती मम । इत्युक्त्वा स तया साकं भार्यया तां तन्न जहौ ॥ १३०
क्षणात्सर्वेऽपि गन्धर्वो भूत्वा लोकस्य पश्यतः । खमुत्पत्य निजं धाम ययुस्ते मलयाचलम् ॥ १३१
शीलयत्यपि शीलस्य माहात्म्यात्प्राप्य संपदम् । ताम्रलिप्तीं पुरीं गत्वा तस्थौ धर्मोपसेविनी ॥ १३२
इति जगति न रक्षितुं समर्थः कचिदपि कश्चिदपि प्रसह्य नारीम्।
अवाति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्वपाशबन्धः ॥ १३३
एवं चेष्य नास दुःखैकहेतुर्देषः पुंसां द्वेषदायी परेषाम् ।
योऽयं मा भूद्भक्षणायाङ्गनानामत्यौत्सुक्यं प्रत्युतासां करोति ॥ १३४
इति नरवाहनदत्तो रत्नप्रभया स्वभार्यया कथिताम् ।
स निशम्य कथामयं सचिवैः सार्ध परं मुमुदे ॥ १३५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके द्वितीयस्तरङ्गवः ।
_____
तृतीयस्तरङ्गः।
एवं रत्नप्रभाख्यातकथाक्रमवशादथ । नरवाहनदत्तं तं सचिवो गोमुखोऽब्रवीत् ॥ १
सत्यं साध्व्यः प्रविरलाश्चपलास्तु सदा स्त्रियः। अविश्वस्यास्तथा चैतामपि देव कथां शृणु ॥ २
इहास्त्युञ्जयिनी नाम नगरी विश्वविश्रुता । तस्यां निश्चयदत्ताख्यो वणिक्पुत्रोऽभवत्पुरा ॥ ३
स चूतकारो घृतेन धनं जित्वा दिने दिने । स्नात्वा सिप्राजलेऽभ्यच्थं महाकालमुदारधीः॥ ४
दत्वा दानं द्विजातिभ्यो दीननाथेभ्य एव च । व्यधाद्विलेपनाहारताम्बूलाद्यविशेषतः ॥ ५
सदा स्नानार्चनाद्यन्ते महाकालालयान्तिके । गत्वा व्यलिस्पदामानं श्मशाने चन्दनादिना ॥ ६
तत्रस्थे च शिलास्तम्भे स विन्यस्य विलेपनम् । विलिलेप कषन्पृष्टं युवा प्रत्यहमेककः ॥ ७
तेन स्तम्भः स सुश्लक्ष्णः कालेनाभवदेकतः । अथागचित्रकृतेन पथ रूपकृता सह ॥ ८
स स्तम्भं वीक्ष्य सुश्लक्ष्णं तत्र गौरीं समालिखत् । 'रूपकारोऽपि शस्त्रेण क्रीडयैवोल्लिलेख ताम् ॥ ९
ततस्तयोर्गतवतोर्महाकालार्चनागता । विद्याधरसुतैकात्र स्तम्भे देवीं ददर्श ताम् ॥ १०
सुलक्षणत्वात्सांनिध्यं तस्यां मत्वा कृतार्चना । अदृश्या विश्रमायैतं शिलास्तम्भं विवेश सां ॥ ११
तावन्निश्चयदत्तः स तत्रागत्य वणिक्सुतः। साध्यैः स्तम्भमध्ये तां दशेदिखितामुमाम् ॥ १२
विलिष्याङ्गानि तत्स्तम्भभागेऽन्यत्रानुलेपनम् । न्यस्य पृष्ठं समालब्धं प्रारेभे निकषंश्च सः ॥ १३
तद्विलोक्य विलोलाक्षी सा विद्याधरकन्यका। स्तम्भान्तरस्था तदुपहृतचित्ता व्यचिन्तयत् ॥ १४
ईदृशस्यापि कोऽप्यस्य नास्ति पृष्ठानुलेपकः। तदहं तावदचास्य धृष्टमेषा समालभे ॥ १५
इत्यालोच्य प्रसायैव करं स्तम्भान्तरात्ततः । व्यलिपत्तस्य सा पृष्टं स्नेहाद्विद्याधरी तद ॥ १६
तत्क्षणं लधसंस्पर्शः श्रुतकङ्कणनिःस्वनः जग्राह्य हस्तं हस्तेन स तस्यास्तं वणिक्सुतः ॥ १७
महाभागापराद्धं ते किं मया मुञ्च मे करम् । इत्यदृश्यैव तं विद्याधरी स्तम्भादुवाच सा ॥ १८
प्रत्यक्ष ब्रूहि में का त्वं ततो मोक्ष्यामि ते करम् । इति निश्चयदत्तोऽपि प्रत्युवाच स तां ततः ॥ १९
प्रत्यक्षदृश्या सर्वे ते वच्मीति शपथोत्तरम् । विद्याधर्या तयोक्तोऽथ करं तस्या मुमोच सः ॥ २०
अथ स्तम्भाद्विनिर्गत्य साक्षात्सर्वाङ्गसुन्दरी । तन्मुखसक्तनयना तं जगादोपविश्य सा ॥ २१
अस्ति प्रालेयशैलानै नगरी पुष्करावती । नाम्ना विन्ध्यपरस्तस्यासस्ते विद्याधराधिपः ॥ २२
अनुरागपरा नाम तस्याहं कन्यका सुता । महाकालार्चनायाता विश्रान्तास्मीह संप्रति ॥ २३