सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २।]
१६५
रत्नप्रभालवकः ७

इत्युक्ता तेन सा राज्ञा शीलवत्यब्रवीत्तदा । राजदत्तेति नान्नास्ति ताम्रलिप्य स्वसा मम ॥४८
उपयच्छस्व तां देव श्लाघ्यरूपां यदीच्छसि । इत्युक्तः स तया राज्ञः प्रतिपेदे तथेति तत् ॥ ४९
निश्चित्य च तद्न्येद्युः शीलवत्या तया सह । तेनापि हर्षगुप्तेन तमारुह्य खगामिनम् ॥ ५०
श्वेतरपॅिम स्वयं गत्वा ताम्रलिप्त स भूपतिः । विवेश हर्षगुप्तस्य वणिजस्तस्य मन्दिरम् ॥ ५१
तत्र पप्रच्छ तदहीनं शीलवतीस्वसुः । विवाहे राजताया गणकानात्मनस्तथा ॥ ५२
गणकाश्चोभयोः पृष्टा नक्षत्राण्येवमब्रुवन् । लग्नो वां शोभनो राजन्नस्ति मासेष्वितस्त्रिषु ॥ ५३
अद्य वा विद्यते यादृक्तेनैषा चेद्विवाह्यते । राजदत्ता ततोऽवश्यमसाध्वी भवति प्रभो ॥ ५४
गणकैरेवमुक्तोऽपि कमनीयबधूत्सुकः । एकाकी चिरमस्थातुः स राजा समचिन्तयत् ॥ ५५
अलं विचरेणायैव राजदत्तामिहोद्वहे । शीलवत्याः स्वसा चैषा निर्देषं नासती भवेत् ॥ ५६
यत्तत्समुद्रमध्येऽस्ति द्वीपखण्डसमानुषम् । एकशून्यचतुःशालं तत्रैतां स्थापयामि च ॥ ५७
दुर्गमेऽत्र परीवारं स्त्रीरेवास्यः करोमि च । पुरुषादर्शनादेवमसती स्यादियं कथम् ॥ ५८
इति निश्चित्य तदहः परिणिन्ये स भूपतिः । तां राजदत्तां सहसा शीलवत्या समर्पिताम् ॥ ५९
कृतोद्वहः कृताचारो हर्षगुनेन तां वधूम् । आद्य तेनैव समं शीलवत्या तर ॥ ६०
श्वेतरङिम तमारुह्य क्षणेन नभसा निजम् । मागन्मुखजनं द्वीपं रनकूटं तदाययौ ॥ ६१
संविभेजे च तां भूयस्तथा शीलवतीं यथा । प्राप्तसाध्वीव्रतफला कृतार्था समपादि सा ॥ ६२
ततस्तत्रैव करिणि श्वेतरश्मौ नभश्वरे । आरोप्य तां नववधै राजदत्तां स चिन्तिते ॥ ६३
नीत्वा तत्राब्धिमध्यस्थे द्वीपे मानुषदुर्गमे । आस्थापयच्चतुःशाले नारीमयपरिच्छदाम् ॥ ६४
यद्यद्वस्तूपयुक्तं च तस्यास्तत्तद्वेश्वसन् । व्योम्नव प्रपयामास तत्र तेन गजेन सः ॥ ६५
स्वयं तदनुरक्तश्च तत्रैवासीत्सदा निशि । आययौ राजकार्यार्थं रत्नकूटं दिवा पुनः ॥ ६६
एकदा स तया साकं प्रत्यूषे राजदत्तया। राजा प्रत्तिन्नन्दुःस्वप्नं सिषेवे धनसङ्गलम् ॥ ६७
तेन सत्ताममुञ्चन्तीमपि मुक्त्वा स तां ययौ । रत्नकूटं स्वकार्यार्थं नित्यस्निग्धा हि राजता ॥ ६८
तत्र तस्थौ सशक्कन कुचैन्कार्याणि चेतसा । क्षीचा किभेकका मुक्त स त्वयेतीव शंसता ॥६९
तावच्च राजदत्ता सा स्थाने तन्नातिदुर्गमे । महानसादिव्यश्रासु दासीष्वेकाकिनी स्थिता ॥
७०
द्वारे विधिमिवान्यं तत्तद्रक्षाविजिगीषया । आगतं पुरुषं कंचिद्ददर्शाश्चर्यदायकम् ॥ ७१
कस्त्वं कथमिदं स्थानमगम्यं चगतो भवान् । इति तं चान्तिकप्राप्तं क्षीबा पप्रच्छ सा किल ॥ ७२
ततः स दृष्टबहुलक्लेशस्तां पुरुषोऽब्रवीत् । मुग्धे पवनसेनाख्यो वणिक्पुत्रोऽस्मि माथुरः॥ ७३
हृतस्वो गोत्रजैः सोऽहमनाथः प्रमयात्पितुः । गत्वा विदेशे कृपणां परसेवामशिश्रियम् ॥ ७४
ततः कृच्छूण संप्राप्य धनलेशं वणिज्यया । । गच्छन्देशान्तरं मार्गे मुषितोऽस्म्येत्य तस्करैः ॥ ७५
ततो भिक्षां भ्रमंस्तुल्यैः सहन्यैर्गीतवानहम् । रत्ननामाकरस्थानं कनकक्षेत्रसंज्ञकम् ॥ ७६
तत्राङ्गकृत्य भूपस्य भागं संवत्सरावधि । खाते खनन्क्षितिं रत्नं नैकमप्यस्मि लब्धवान् ॥ ७७
नन्दसु लब्धरत्नेषु मद्विधेष्वपरेषु च । गवाब्धितीरे दुःखार्तः काष्ठम्यहमुपहरम् ॥ ७८
अग्निप्रवेशाय चितां यावत्तत्र करोमि तैः । जीवदत्ताभिधस्तावत्कोऽप्यत्र वणिगाययौ ॥ ७९
निवार्य मरणात्तेन दत्त्वा वृत्तिं दयालुना । गृहीतोऽहं प्रवहणे स्वर्णद्वीपं यियासता ॥ ८०
ततोऽकस्मात्प्रवहणेनाब्धिमध्येन गच्छताम् । पञ्चस्वहःसु यातेषु मेघोऽकस्माददृश्यत ॥ ८१
प्रवृष्टे स्थूळधाराभिमॅचेऽस्मिन्मारुतेन तत् । अधूर्णत प्रवहणं मत्तहस्तिशिरो यथा ॥ ८२
क्षणान्निमज्ज्य भनेऽस्मिन्यानपर्ने विधेर्वशात् । एकः फलहकः प्राप्तस्तत्कालं मजता मया ॥ ८३
तदारूढस्ततः शान्ते मेघाटोपे विधेर्वशात् । इमं प्रदेशं प्राप्याहमुत्तीर्णः सांप्रतं वने ॥ ८४
वीक्ष्य चेदं चतुःशालं प्रविश्याभ्यन्तरं मया । दृष्टा दृष्टिसुधावृष्टिस्त्वं तापशमनी शुभे ॥ ८५
इत्युक्तवन्तं पर्यङ्के निवेश्यैवालिलिङ्गः तम् । मोहिता राजदत्ता सा मदेन मदनेन च ॥ ८६