तथा च श्रूयतामत्र कथां वः कथयाम्यहम् । अस्तीह रत्नकूटाख्यं द्वीपं मध्येऽम्बुधेर्महत् ॥
तत्र राजा महोत्साहः पुरा परमवैष्णवः। यथार्थेनाभिधानेन रत्नाधिपतिरित्यभूत् ॥
स राजा विजयं पृथ्व्याः सर्वराजात्मजास्तथा। भार्याः प्राप्तुं तपस्तेपे विष्णोराराधनं महत ॥
संतुष्टस्तपसा साक्षाद्भगवानादिदेश तम् ।“उत्तिष्ठ राजंस्तुष्टोऽस्मि तदिदं वच्मि ते शृणु ॥
कलिङ्गरविषये कोऽपि गन्धर्वो मुनिशापतः। समुत्पन्नो गजः श्वेतः श्वेतरश्मिरिति श्रुतः ॥
पूर्वजन्मतपःसिद्धियोगान्मद्भक्तितस्तथा । ज्ञानी गगनगामी च गजो जातिस्मरश्च सः ॥
दत्तादेशो मया स्वप्ने स च हस्ती महास्तव । एत्य स्वयं युमार्गेण वाहनत्वं प्रपत्स्यते ॥
तमारुह्य गजं श्वेतं सुरेभमिव वजभृत् । व्योममार्गेण यं यं त्वं राजानमभियास्यसि ॥
स स दिव्यानुभावाय भीतस्तुभ्यं प्रदास्यति । स्वप्ने मयैव दत्तज्ञः कन्यादाननिभात्करम् ॥
एवं विजेष्यसे कृत्स्नां पृथ्वीमन्तःपुरणि च । राजपुत्रीसहस्राणि वमशीतिमवाप्स्यसि ॥
इत्युक्त्वान्तर्हिते विष्णौ स राजा कृतपारणः । अन्येद्युरागतं व्योम्ना तं ददर्श गजं शुभम् ॥
आरुखोपनतं तं च यथादिष्टः स विष्णुना । तथा विजित्य पृथिवीमाजहे राजकन्यकाः ॥
सहस्राशीतिसंख्याभिस्ततस्ताभिः समं च सः । उवास रत्नकूटेऽत्र यथेच्छं विहरनृपः ॥
शान्त्यर्थं शीतरश्मेश्च तस्य दिव्यस्य दन्तिनः । प्रत्यहं भोजयामास विप्राणां शतपञ्चकम् ॥
कदाचिच्च तमारुह्य परिभ्रम्य स भूपतिः। द्वीपान्तराणि स्वं द्वीपं रत्नाधिपतिराययौ ॥
तत्रावतरतस्तस्य गगनस्तु गजोत्तमम् । चक्ष्वा ताक्ष्यंछवः पक्षी मूर्त्ति दैवादताडयत् ॥
स च पक्षी प्रदुद्राव राज्ञा तीक्ष्णाङ्कुशाहतः । हस्ती तु भूमावपतचवाघातेन मूञ्छितः ॥
नृपेऽवतीर्थे स गजो लब्धसंज्ञोऽपि नाशकत् । उस्थाप्यमानोऽप्युत्थातुं निरस्तकबलग्रहः ॥
पञ्चहनि तथैवास्मिन्चारणे पतितस्थिते । दुःखितः स निराहारो राजा चाप्येवमब्रवीत् ॥
भो लोकपाला धृतास्मिन्नुपायं संकटे मम । अन्यथोपहरिष्यामि च्छिवाहं स्वशिरोऽद्य वः ॥
इत्युक्त्वैवात्तखतुं तं स्वशिरश्छेत्तुमुद्यतम् । अशरीरा जगामैवं वाणी तत्क्षणमम्बरात् ॥
मा साहसं कृथा राजन्साध्वी काचित्करोति चेत् । हस्तस्पर्श गजस्यास्य तदुत्तिष्ठति नान्यः ॥
तच्छुत्वैवामृतलतां नाम हृष्टः स भूपतिः। मुख्यामानाययामास निजां देवीं सुरक्षिताम् ॥
तया स्पृष्टः स हस्तेन नोदतिष्ठद्भजो यदा। तदा सोऽन्या निजाः सर्वा देवीरानाययनृपः ॥
ताभिः कृतकरस्पर्शः समस्ताभिरपि क्रमात् । नैवोतस्थौ द्विपः सोऽत्र न तास्वेकाप्यभूत्सती ॥
अन्तःपुरसहस्राणि तामशीतिमपि स्फुटम् । दृष्टा विलज्जितान्येव स राजा जनसंनिधौ ॥
विलक्षः स्खपुरात्तस्मादानाय्य निखिलाः स्त्रियः। क्रमेण हस्तिनस्तस्य हस्तस्पर्शमकारयत् ॥
तथापि यस नोत्तस्थौ गजेन्द्रस्तस भूपतिः । कष्टं पुरे में साध्वी स्त्री नैकापीति त्रपां ययौ ॥
तावच्च हर्षगुप्ताख्यस्त।म्रलिप्याः समागतः । वणिक्तत्राययौ बुद्ध वृत्तान्तं तं सकौतुकः ॥
तस्य कर्मकरी पश्चादाजगाम पतिव्रता । एका शीलवती नाम सा तदृष्ट्वा तमब्रवीत् ॥
स्पृशाम्यहं करेणैतं स्वभर्तुश्चापरो मया । मनसापि न चेज्यातस्तदुत्तिष्ठत्वयं द्विपः ॥
इत्युक्त्वोपेत्य हस्तेन सा च पस्पर्श तं गजम् । उदतिष्ठत्स च स्वस्थः कवलं च ततोऽग्रहीत ॥
इमास्ता विरलाः साध्व्यः काश्चिदेवेश्वरोपमाः । सर्गपालनसंहारसमर्था जगतोऽस्य याः ॥
इति शीलवतीं तत्र कृतकोलाहलो जनः । तां तुष्टाव तदा दृष्ट्वा श्वेतरद्दीिम तमुत्थितम् ॥
राजापि रत्नाधिपतिः परितुष्याभिनन्द्य ताम् । सोऽपूरयदसंख्यातै रत्नैः शीलवतीं सतीम् ॥
तत्स्वामिनं च वणिजं हर्षगुप्तं तथैव तम् । अपूजयद्ददौ चास्य गृहं राजगृहान्तिके ॥
परिवजितसंस्पर्श निजभार्यास्तथैव सः । पिण्डाच्छादनमात्रैकभागिनीरकरोत्ततः ॥
अथानाय्य कृताहारो हर्षगुप्तस्य संनिधौ । साध्वीं शीलवतीं तां स जगाद विजने नृपः॥
शीलयति ते काचिकन्या पितृकुलादिति । तां मे दापय जाने हि सापि स्यास्वादृशी ध्रुव ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
[ आदि
कथासरित्सागरः ।