सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
[ *
कथासरित्सागरः ।

ततश्चागत्य धर्मेण राजकृत्यान्यवेक्ष्य सः । करोत्याहारपानादि सुनिवन्नियतव्रतः॥
एवं दिनेषु गच्छत्सु तस्योद्धातवशात्किल। अपुत्रताकृता राज्ञश्चिन्ता जातूपद्यत ॥
तयातिदुर्मनस्कं च दृष्ट्वा पप्रच्छ तं प्रिया । अलंकारप्रभा देवी दौर्मनस्यस्य कारणम् ॥
ततः स राजाबादीत्तां सर्वसंपत्तिरस्ति मे । एकं तु पुत्रो नास्तीति दुःखं मां देवि बाध ॥
या मया प्रागपुत्रस्य पुंसः सन्ववतः कथा । शुता तत्स्मरणोद्धताच्चिन्तैषा चोन्नता मम ॥
कीदृशी सा कथा देवेत्युक्तो देव्या तया च सः । राजा तस्यै कथामेवं संक्षेपात्तामवणे ॥
नगरे चित्रकूटाख्ये ब्राह्मणार्चनतत्परः । बभूव ब्राह्मणवरो नान्नान्वर्थो महीपतिः ॥
तस्यासीत्सत्त्वशीलाख्यो जयी युदैकसेवकः । मासे मासे च लेभे स तस्मात्स्वर्णशतं नृ ॥
पर्यायै तच्च नैवाभूत्यागिनस्तस्य काञ्चनम् । अपुत्रत्वाच दानैकविनोदासक्तचेतसः ॥
पुत्रो विनोदहेतुनै दत्तस्तावन्न वेधसा । दत्तं च दानव्यसनं तदप्यर्थविनाकृतम्। ॥
वरं जीर्णस्य शुष्कस्य तरोर्जन्मोपलस्य वा । न संसारे दरिद्रस्य त्यागैकव्यसनस्य च ॥
इति संचिन्तयन्नित्यं सत्त्वशीलः स जातुचित् । उद्याने संचरन्प्राप निधिं दैवाकदाचन ॥
सभृत्यश्च तमादाय भूरिकाञ्चनभास्वरम् । महार्घरत्नरुचिरं निनाय प्रसभं गृहम् ॥
ततः स भोगान्भुञ्जानो ब्राह्मणेभ्यो ददद्वसु । भृत्येभ्यश्च सुहृद्यश्च यावदास्तेऽत्र सारि ॥
तावदृष्ट्वा तदभ्यूट निधिलाभः स गोत्रजैः । तस्य राजकुले गत्वा स्वैरं राज्ञे निवेदितः॥
अथ राज्ञा समाहूतः प्रतीहारनिदेशतः । क्षणं राजाङ्गणैकान्ते सत्स्वशीलः स तस्थिवान् ॥
तत्र हस्तस्थया लीलावश्मुया खनन्क्षितिम् । स लेभे ताम्रकुम्भीस्थं निधानं चापरं मह ॥
दत्वेदं रञ्जनीयते राजेति हृदयं निजम् । विधिना सर्वतुष्टेन प्रकाशमिव दर्शितम् ॥
तथैवाच्छादयामास मृदा तच्च विवेश च । आवेदितः प्रतीहारेणान्तिकं नृपतेस्ततः ॥
ज्ञातं मया निधिर्लब्धस्त्वया तं नः समर्पय । इति तत्र स राज्ञा च प्रणतो जगदे स्वयम् ॥
किमर्पयामि देवायं किमद्यतनमुच्यताम् । सोऽपि तत्रेति राजानं सत्वशीलो जगाद तम् ॥
अर्पयाभिनवप्राप्तमित्युक्तश्च स भूभृता । गत्वा राजाङ्गणैकान्ते निधिं तस्मै समर्पयत् ॥
आयं निधिं यथेच्छं त्वं भुङ्कति प्रेषितोऽथ सः। नृपेण निधितुष्टेनु सवशीलोऽगमतृहम् ॥
तत्रासीदानभोगाभ्यां तन्वन्नान्नो यथार्थताम् । नुदैश्चपुत्रतादुःखदौर्मनस्यं कथंचन ॥
इत्येतत्सत्त्वशीलस्य वृत्तं पूर्वं श्रुतं मया । संस्मृत्य स्थीयते दुःखं पुत्रासद्भावचिन्तया ॥
इति विद्याधरेन्द्रेण भार्या हेमप्रभेण सा । अलंकारप्रभा देवी गदिता निजगाद तम् ॥
सत्यमेवं सुसत्वानां साहाय्यं भजते विधिः। किं नापरो निधिर्लब्धः सत्वशीलेन संकटे ॥
तत्स्वसत्वप्रभावेण त्वमपि प्राप्स्यसीष्सितम् । शृणु विक्रमतुङ्गस्य कथां चात्र निदर्शनम् ॥
अस्ति पाटलिपुत्राख्यं भुवोऽब्रुकरणं पुरम् । पूर्णवर्णव्यवस्थानैस्तैस्तैः सन्मणिभिश्चितम् ॥
तत्र विक्रमतुङ्गाख्यो राजाभूत्सत्ववान्पुरा। योऽभूत्पराङ्मुखो दाने नाथिनां न युधि द्वि ॥
स जातु मृगयाहेतोः प्रविष्टो नृपतिर्वनम् । बिल्वैहमं विदधतं तत्र ब्राह्मणमैक्षत ॥
तं दृष्ट्वा प्रयुकामोऽपि परिहृत्य तन्तिकम् । ययौ स दूरं मृगयारसेन सबलस्ततः ॥
उत्पतद्भिः पतद्भिश्च हन्यमानैः स्वपाणिना । चिरं मृगैश्च सिंहैश्च क्रीडित्वा कन्दुकैरिव ॥
आवृत्तस्तं तथैवात्र दृष्ट्वा होमपरं द्विजम् । उपेत्य नत्वा पप्रच्छ नाम होमंफलं च सः ॥
ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत । विप्रोऽहं नागशर्माख्यो होमे च श्रुणु मे फलम् ॥
अनेन बिल्वहोमेन प्रसीदति यदानलः । हिरण्मयानि बिल्वनि तदा निर्यान्ति कुण्डतः ॥
ततोऽग्निः प्रकटीभूय वरं साक्षात्प्रयच्छति । वर्तते मम भूयांश्च कालो बिल्वानि जुह्वतः॥
मन्दपुण्यस्य नाद्यापि तुष्यत्येव स पावकः । इत्युक्ते तेन राजा तं धीरसवोऽभ्यभाषत ॥
तर्हि मे देहि बिल्वं त्वमेकं यावज्जुहोमि तत् । प्रसादयामि च ब्रह्मन्नधुनैव तवानलम् ॥