पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः । मैवं प्रयच्छ मे विल्वं-पश्याश्चर्यं क्षणादिति ॥ ६६
ततः स राजे विप्रोऽस्मै ददौ बिल्वं सकौतुकः। राजा च स तदा तत्र दृढसत्वेन चेतसा ॥ ६७
हुतेनानेन बिल्वेन न चेत्तुष्यसि तच्छिरः। त्वय्यग्ने स्वं जुहोमीति ध्यात्वा तस्मिथुहाव तम् ॥ ६८
आविरासीच सप्तार्चिः कुण्डाद्विल्वं हिरण्मयम् । स्वयमादाय तत्तस्य फलं सत्वतरोरिव ॥ ६९
जगाद च स साक्षात्तं जातवेदा महीपतिम् । सत्स्वेनानेन तुष्टोऽस्मि तवृहाण वरं नृप ॥ ७०
तच्छुत्वा स महासवो राजा तं प्रणतोऽब्रवीत् । को ममान्यो वरो दे हि द्विजायास्मै यथेप्सितम् ॥ ७१
इति राज्ञो वचः श्रुत्वा सुप्रीतोऽग्निर्जगाद तम् । राजन्महाधनपतिव्रह्मणोऽयं भविष्यति ॥ ७२
त्वमप्यक्षीणकोषश्रीर्मप्रसादाद्भविष्यसि । एवं दत्तवरं वह्नि ब्राह्मणः स व्यजिज्ञपत् ॥ ७३
आविर्भूतोऽसि सहसा राज्ञः स्वेच्छाविहारिणः । न मे सनियमस्यापि किमेतद्भगवन्निति ॥ ७४
ततोऽग्निर्वरदः प्राह नादास्यं दर्शनं यदि । अहोष्यदेष स्वशिरस्तीव्रसवो नृपो मयि ॥ ७५
तीव्रसत्वस्य न चिराद्भवन्येव हि सिद्धयः । मन्दसवस्य तु चिराद्वह्न्युष्मादृशस्य ताः ॥। ७६
इत्युक्त्वान्तर्हिते वह्नौ नृपमामत्रय स द्विजः । नागशर्मा ततो गत्वा क्रमेणाभून्महाधनः ॥ ७७
नृपोऽपि दृष्टसवः स स्तूयमानोऽनुयायिभिः । यथै विक्रमतुङ्गः स्वं पुरं पाटलिपुत्रकम् ॥ ७८
तत्र स्थितमकस्मात्तं प्रविश्य प्रभुमेकदा । रहः शत्रुजयो नाम प्रतीहारो व्यजिज्ञपत् ॥ ७९
विजने देव विज्ञप्तिं चिकीर्पव्रह्मणो बटुः । दत्तशर्मेति नाम स्वं ब्रुवाणो द्वारि तिष्ठति ॥ ८०
प्रवेशयेति भूपेन तेनादिष्टे प्रवेशितः । स्वस्तिपूर्व स राजानं प्रणम्योपाविशद्वदुः ॥ ८१
व्यजिज्ञपच दैवाहं चूर्णयुक्त्या कयाचन । सद्यः साधयितुं जाने ताम्रास्कनकमुत्तमम् ॥ ८२
गुरुणा धूपदिष्टा सा युक्तिर्मम मया च तत् । दृष्टं साक्षात्तया युक्त्या संसिद्धं तस्य काञ्चनम् ॥ ८३
इत्युक्ते बहुना तेन ताम्रमानाययञ्पः । विलीने च कृते तस्मिन्स बटुचूर्णमक्षिपत् ॥ ८४
क्षिष्यमाणं च तचूर्णमदृश्यः कोऽप्यपाहरत् । यक्षस्तं च दशैकः स राजा तुष्टपावकः ॥ ८५
अप्राप्तचूर्णं ताज़े च न सुवर्णबभूव तत् । एवं त्रिः कुर्वतस्तस्य बटोमोघश्रमोऽभवत् ॥ ८६
ततो विषण्णादादाय राजा तस्माद्वोः स्वयम् । चूर्ण विलीने चिक्षेप ताने तेजस्विनां वरः ॥८७
तस्य तन्नाहरचूर्ण युक्षः स्मित्वा ययौ तु सः । तेन तचूर्णसंयोगात्तात्रं कनकतामगात् ॥ ८८
विस्मिताय ततस्तस्मै बदवे परिपृच्छते । स राजा यक्षवृत्तान्तं यथादृष्टं शशंस तत् ॥ ८९
शिक्षित्वा चूर्णयुक्तिं च बटोस्तस्मात्तदैव ताम् । नृपश्चक्रे कृतार्थ तं कृतदारपरिग्रहम् ॥ ९०
भेजे च पूर्णकोषश्रीहें ना तयुक्तिजन्मना । सावरोधोऽसमान्भोगानदरिद्रीकृतद्विजः ॥ ९१
तदेवं भीत इव वा परितुष्ट इवाथवा । ददाति तीव्रसत्वानामिष्टमीश्वर एव हि ॥ ९२
त्वत्तश्च धीरसत्त्वोऽन्यः कोऽस्ति दाता च देव तत् । दास्यत्याराधितः शंभुः पुत्रं ते मा शुचं कृथाः॥ ९३
इत्युदारमलंकारप्रभादेवीमुखाद्वचः। श्रुत्वा हेमप्रभो राजा श्रद्दधे च तुतोष च ॥ ९४
मेने च तनयप्राप्तिं गौरीशाराधनाडुवम् । सूचितां हृदयेनैव निजेनोत्साहशालिना ॥ ९५
ततोऽन्येद्युः सदेवीकः नतोऽभ्यचितशंकरः। नवकाञ्चनकोटीश्च विप्रेभ्यः प्रतिपाद्य सः ॥ ९६
तनयायै तपस्तेपे निराहारो हरागतः । देहस्यक्तो मया शर्वस्तोषितो वेति निश्चितः ॥ ९७
तपस्थश्चेति तुष्टाव वरदं गिरिजापतिम् । हेळवितीर्णदुग्धाब्धि प्रपन्नायोपमन्यवे ॥ ९८
नमस्तेऽस्तु जगत्सर्गस्थितिसंहारहेतवे । गौरीश तत्तव्योमादिभेदभिन्नाष्टमूर्तये ॥ ९९
नमस्ते सततोत्फुल्लहृत्कुशेशयशायिने। विशुद्धमानसावासकलहंसाय शंभवे ॥ १००
नमो दिव्यप्रकाशाय निर्मलाय जलात्मने । प्रक्षीणदोषेदैश्याय सोमायात्यद्भुताय ते ॥ १०१
देहार्धधूतकान्ताय केवलत्रह्मचारिणे । इच्छानिर्मितविश्वाय नमो विश्वमयाय ते ॥ १०२
एवं कृतस्तुतिं तं च राजानं गिरिजापतिः । त्रिरात्रोपोषितं स्वप्ने साक्षाद्येदमब्रवीत् ॥ १०३