अदनवेगस्तामुपेत्य पतिरभ्यधात् । कलिङ्गरसेने दिव्यानामस्माकं समयोऽस्ययम् ॥
मानुषगर्भ यन्मुक्त्वा यामो विदूरतः । कण्वाश्रमे न तत्याज मेनका किं शकुन्तलाम् ॥
यद्यप्यप्सराः पूर्वं तदष्यविनयान्निजात् । शतशापेन संप्राप्ता मानुष्यं देवि सांप्रतम् ॥
व बन्धकीशब्दो जातः साध्व्या अपीह‘ते । तस्मादपत्यं रक्षेस्त्वं स्थानं यास्याम्यहं निजम् ॥
रेिष्यसि यदा मां च संनिधास्ये तदा तव । एवं कलिङ्गसेनां तामुक्त्वा साधुविलोचनाम् ॥
राश्वास्य च दत्त्वा च तस्यै सद्रत्नसंचयम् । तचित्तः समयाकृष्टो ययौ विद्याधरेश्वरः ॥
लेफ़सेनाप्यत्रासीदपत्याशां सखीमिव । आलम्ब्य वत्सराजस्य भुजच्छायामुपाश्रिता ॥
नान्तरे कृतवतीं साङ्गभङ्गप्तये तपः। आदिदेश रतिं भार्यामनङ्गस्याम्बिकापतिः ॥
सराजगृहें जातो दग्धपूर्वः स ते पतिः। नरवाहनदत्ताख्यो योनिजो मद्विलद्धनात् ॥
दाराधनतस्त्वं तु सर्वलोकेऽव्ययोनिजा । जनिष्यसे ततस्तेन भर्ना सार्जेन योक्ष्यसे ॥
बभुक्त्वा रतिं शंभुः प्रजापतिमथादिशत् । कलिङ्गसेना तनयं सोष्यते दिव्यसंभवम् ॥
हृत्वा मायया तस्यास्तत्स्थाने त्वमिमां रतिम् । निर्माय मानुषीं कन्यां त्यक्तदिव्यततं क्षिपेः ॥
श्वराज्ञामद्य मूर्त्ति वेधस्यथो गते । कलिङ्गसेना प्रसवं प्राप्ते काले चकार सा ॥
Tतमात्रं सुतं तस्या हृदैवात्र स्वमाया । रतिं तां कन्यकां कृत्वा न्यधाद्विधिरलक्षितम् ॥
वंश्च तत्र तामेव कन्यां जातमलभत । दिवष्यकाण्डप्रतिपच्चन्द्रलेखामिवोदिताम् ॥
न्ति द्योतिततद्वासगृहां निर्जित्य कुर्वतीम् । रत्नदीपशिखाग्रेणीचेंज्जिता इव निष्प्रभाः ॥
लिङ्ग सेना तां दृष्टा जातामसदृशीं सुताम् । पुत्रजन्माधिकं तोषादुत्सवं विततान स ॥
थ वत्सेश्वरो राजा सदेवीकः समन्त्रिकः कन्यां कलिङ्गसेनाया जातां शुश्राव तादृशीम् ॥
श्रुत्वा च स नृपोऽकस्मादुवाचेश्वरचोदितः । देवीं वासवदत्तां तां स्थिते यौगन्धरायणे ॥
जाने कलिङ्गसेनैषा दिव्या स्त्री शपतयुता । अस्यां जाता च कन्येयं दिव्यैवाश्चर्यरूपधृत् ॥
दुसौ कन्यका तुल्या रूपेण तनयस्य मे । नरवाहनदत्तस्य महदेवीत्वमर्हति ॥
तछुत्वा जगद् राजा देव्या वासवदत्तया । महाराज किमेवं त्वमकस्मादद्य भाषसे ॥
कुरूद्वयविशुद्धोऽयं क्क पुत्रस्ते बत क् सा । कलिङ्ग सेनातनया बन्धकीगर्भसंभवा ॥
श्रुत्वैतद्विमृशन्जा सोऽब्रवीन्नह्यहं खतः । बदाम्येतत्प्रविश्यान्तः कोऽपि जल्पयतीव माम् ॥
नरवाहनदत्तस्य कन्येयं पूर्वनिर्मिता । भार्येत्येवं वदन्तीं च शृणोमीव गिरं दिवः ॥
कलिङ्गसेना किं चासावेकपत्नी कुलोद्गता । पूर्वकर्मवशात्त्वस्या बन्धकीशच्दसंभवः ॥
इति राज्ञोदिते प्राह मन्त्री यौगन्धरायणः। धूयते देव यच्चक्रे रतिर्दग्धे स्मरे तपः ॥
अत्यलोकावतीर्णेन सशरीरेण संगमः । मर्यभावगतायास्ते स्वेन भयं भविष्यति ॥
इति चादाद्वरं शर्वो रयै स्वपतिमीप्सवे । कामावतारश्चोक्तः प्राग्दिव्यवाचा सुतस्तव ॥
त्यावतरणीयं च मर्यभावे हराज्ञया । गर्भग्राहिकया चाद्य ममैवं वर्णितं रहः ॥
भया कलिङ्गसेनाया गर्भः प्राग्गर्भशय्यया । युक्तो दृष्टस्तदैवान्यपश्यं तद्विवर्जितम् ॥
तदाश्चर्यं विलोक्याहं तवाख्यातुमिहागत। । इति स्त्रिया तयोक्तं मे जातैषा प्रतिभापि ते ॥
तजाने मायया देवै: सैषा रतिरयोनिजा । कलिङ्गसेनातनया गर्भचौर्येण निर्मिता ॥
भार्या कामावतारस्य पुत्रस्य तव भूपते । तथा चात्र कथामेतां यक्षसंबन्धिनीं शृणु ॥
भृत्यो वैश्रवणस्याभूद्विरूपाक्ष इति श्रुतः। यक्षो निधानलक्षाणां प्रधानाध्यक्षतां गतः ॥
मथुरायां बहिः संस्थं निधानं स च रक्षितुम् । यज्ञे नियुक्तवानेकं शिलास्तम्भमिवाचलम् ॥
तत्र तन्नगरीवासी कझिरपाशुपतो द्विजः। निधानान्वेषणायागात्खन्यवादी कदाचन ॥
स मानुषवसादीपहस्तो यावत्परीक्षते । स्थानं तत्तावदस्यात्र कराद्दीपः पपात सः ॥
लक्षणेन च तेनात्र स्थितं निधिमवेत्य सः । उद्धाटयितुमारेभे सहान्यैः सखिभिजैिः ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१५८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२
[ आदितस्तरङ्ग
कथासरित्सागरः