तत्रोपा खोऽयमित्यस्या हृष्टाङ्गुल्या सकस्पया । द्वारवत्यां यदुकुलालाग्निरुद्धमदर्शयत् ॥
चित्रलेखा ततोऽवादीत्सखि धन्यासि यत्त्वया । भर्तानिरुद्धः प्राप्तोऽयं पौत्रो भगवतो हरेः ॥
योजनानां सहस्त्रेषु षष्टौ वसति स त्वितः । तच्छुत्वा साधिकौत्सुक्यवशात्तामब्रवीदुषा ॥
नाद्य चेत्सखि तस्याऊं श्रये श्रीखण्डशीतलमे । तदत्युद्दमकामाग्निनिर्दग्धां विद्धि मां मृताम् ॥
श्रुत्वैतच्चित्रलेखा सा तामाश्वास्य प्रियां सखीम् । तदैवोत्पत्य नभसा ययौ द्वारवतीं पुरीम् ॥
ददर्श च पृथूलुडैर्मन्दिरैरऊिधमध्यगम् । कुर्वतीं तं पुनः क्षिप्तमन्थाद्रिशिखरश्रमम् ॥
तस्यां सुप्तं निशि प्राप्य सानिरुद्धं विबोध्य च । उषानुरागं तं तस्मै शशंस स्वनदर्शनात् ॥
आदाय चाततद्रुपवनवृत्तान्तमेव तम् । सकं सिद्धिप्रभावेण क्षणेनैवाययौ ततः॥
एत्य चावेक्षमाणायास्तस्याः सख्याः खवल्मेना । प्रावेशयदुषायास्तं गुप्तमन्तःपुरं प्रियम् ॥
सा द्यथैवानिरुद्धं तमुषा साक्षादुपागतम् । अमृतांशुमिवाम्भोधिवेळ नाद्धेष्ववर्तत ॥
ततस्तेन समं तस्थौ सखीदत्तेन तत्र सा । जीवितेनेव मूर्तेन वल्लभेन यथासुखम् ॥
तज्ज्ञानन्पितरं चास्याः क्रुद्धं बाणं जिगाय सः । अनिरुद्धः स्ववीर्येण पितामहबलेन च ॥
ततो द्वारवतीं गत्वा तावभिन्नतनू उभौ । उषानिरु द्वौ जज्ञाते गिरिजाशंकराविव ॥
इत्युषायाः प्रियोऽदैव मेलितश्चित्रलेखया । त्वं सप्रभवाप्यधिका ततोऽपि सखि मे मता ॥
तन्ममानय वत्सेशमिह मा स्म चिरं कृथाः । एवं कलिङ्गसेनातः श्रुत्वा सोमप्रभाब्रवीत् ॥
चित्रलेखा सुरी सा समुक्षिष्यानयत्परम् । मादृशी किं विदध्यात्तु परस्पर्शाद्यकुर्वती ॥
तत्वां नयामि तत्रैव यत्र वत्सेश्वरः सखि । प्राक्प्रसेनजितं तं ते दर्शयित्वा त्वथिनम् ॥
इति सोमप्रभोक्ता सा तथेत्युक्त्वा तया सह । कलिङ्गसेना तत्कृतं मायायन्नबिमानकम् ॥
तदैवारुह्य नभसा सजोषा सपरिच्छद । कृतप्रास्थानिका प्रायात्पित्ररविदिता ततः ॥
नहि पश्यति तुरुं वा श्वधं वा स्त्रीजनोऽग्रतः स्मरेण नीतः परमां धारां वाजीव सादिना ॥
आवस्तीं प्राप्य पूर्व च तं प्रसेनजितं नृपम् । मृगयानिर्गतं दूराज्जरापाण्डं ददर्श सा ॥
वृद्धाद्रजास्मादिति तां दूरादिव निषेधता । उर्दूयमानेन मुहुश्चामरेणोपलक्षितम् ॥
सोऽयं प्रसेनजिद्राजा पित्रास्मै त्वं प्रदित्सिता । पश्येति सोमप्रभया दर्शितं सोपहसया ॥
ज्यायं वृतो राजा का वृणीतेऽपरा त्वमुम् । तदितः सखि शीतुं मां नय वत्सेश्वरं प्रति ॥
इति सोमप्रभां चोक्त्वा तत्क्षणं सा तया सह । कलिङ्गसेना व्योम्नैव कौशाम्बीं नगरीं ययौ ॥
तत्रोद्यानगतं स तं वत्सेशं सख्युदीरितम् । ददर्श दूरात्सोत्कण्ठा चकोरीवामृतत्विषम् ॥
सा तदुत्फुल्लया दृष्ट्या हूयसेन च पाणिना । प्रविष्टोऽयं पथानेन मामत्रेत्यब्रवीदिव ॥
सखि संगमयाचैव वत्सराजेन मामिह । एनं विलोक्य हि स्थातुं न शक्ता क्षणमप्यहम् ॥
इति चोक्तवतीं तां सा सखी सोमप्रभाब्रवीत् । अद्यशुभं मया किंचिन्निमित्तमुपलक्षितम् ॥
तदिदं दिवसं तूष्णीमुद्यनेऽस्मिन्नलक्षिता। अधितिष्ठख मा कार्षीः सखि दूरं गतागतम् ॥
प्रातरागत्य युक्ति वां घटयिष्यामि संगमे । अधुना गन्तुमिच्छामि भर्तुश्चित्तगृहे गृहम् ॥
इत्युक्त्वा तामवस्थाप्य ययौ सोमप्रभा ततः । वत्सराजोऽपि चोद्यानात्स्वमन्दिरमथाविशत् ॥
ततः कलिङ्गसेना सा तत्रस्था स्वमहत्तरम् । यथातत्त्वं स्वसंदेशं दत्व वत्सेश्वरं प्रति ॥
प्राहिणोग्राझिषिद्धापि स्वसख्या शकुनज्ञया । स्वतन्त्रोऽभिनवारूढो युवतीनां मनोभवः॥
स च गत्वा प्रतीहारमुखेनावेद्य तत्क्षणम् । महत्तरः प्रविश्यैवं वरसराजं व्यजिज्ञपत् ॥
राजन्कलिङ्गदत्तस्य राज्ञस्तक्षशिलापतेः। सुता कलिङ्गसेनाख्या श्रुत्वा त्वां रूपवत्तरम् ॥
स्वयंवरार्थमिह ते संप्राप्त त्यक्तबान्धवा । मायायत्रविमानेन सानुगा व्योमगामिना ॥
आनीता गुह्यचारिण्या सख्या सोमप्रभाख्यया । मयासुरस्यात्मजया नडकुंवरभार्यया ॥
तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् । युवयोरस्तु योगोऽयं कौमुदीचन्द्रयोरिव ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
[आदितस्तर
कथासरित्सागरः ।