सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ५ ।]
१३७
मदनमझुकालम्बकः ६ ।

ततोऽन्तःक्षिप्तमण्डूकं सपिधानं नवं घटम् । स्वैरमानाय राजा तं हरिशर्माणमब्रवीत् ॥ १३१
ब्रह्मन्यदस्मिन्घटके स्थितं जानासि तद्यदि । तदद्य ते करिष्यामि पूजां सुमहतीमहम् ॥ १३२
तच्छुत्वा नाशकालं तं मत्वा स्मृत्वा ततो निजम्। पित्रा क्रीडाकृतं बाल्ये सण्डूक इति नाम सः ॥ १३३
विधातृप्रेरितः कुर्वंस्तेनात्र परिदेवनम् । ब्राह्मणो हरिशमात्र सहसैवैवमब्रवीत् ॥ १३४
साधोरेव तु सण्डूक तद्वाकाण्डे घटोऽधुना । अवशस्य विनाशाय संजातोऽयं हठादिह ॥ १३५
तच्छुत्वहो महाज्ञानी मैक्रोऽपि विदितोऽमुना । इति जल्पन्ननन्दात्र प्रस्तुतार्थान्वयाज्जनः ॥ १३६
ततस्तस्मातिभज्ञानं मन्वानो हरिशर्मणे । तुष्टो राजा ददौ ग्रामान्सहेमच्छध्वहनान् ॥ १३७
क्षणाच्च इरिशार्मा स जज्ञे सामन्तसंनिभः । इत्थं दैवेन साध्यन्ते सदर्थाः शुभकर्मणाम् ॥ १३८
तत्सोमदत्तं सदृशं दैवेनैवाभिसारिता । निवायसदृशं राजंस्तव तेजस्वती सुता ॥ १३९
इति मत्रिमुखाच्छ्रुत्वा तस्मै राजसुताय ताम् । राजा विक्रमसेनोऽथ ददौ लक्ष्मीमिवास्मजाम् ॥ १४०
ततः श्वशुरसैन्येनं गस्त्र जित्वा रिपुंश्च सः । सोमदत्तः स्वराज्यस्थस्तस्थौ भार्यासखः सुखम् ॥ १४१
एवं विधेर्भवति सर्वमिदं विशेषस्त्वमीदृशीं घटयितुं क इह क्षमेत ।
वत्सेधरेण सदृशेन विनैव दैवं कुर्यामहं सखि किमत्र कलिङ्ग सेने ॥ १४२
इत्थं कथां रहसि राजसुता निशम्य सोमप्रभवदनतोऽत्र कलिङ्गसेना ।
तत्प्रार्थनी शिथिलबन्धुभयत्रपा सा वत्सेशसंगमसमुत्कमना बभूव ॥ १४३
अथास्तमुपयास्यति त्रिभुवनैकदीपे रवौ प्रभातसमयागमवधि कथंचिदम त्रय ताम् ।
सखीमभिमतोद्यमस्थितमतिं खमार्गेण सा मयासुरसुता ययौ निजगृह्य सोमप्रभा ॥ १४४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमझुकालम्यके चतुर्थस्तरङ्गः ।

_____


पञ्चमस्तरङ्गः ।


ततोऽन्येद्युरुपेतां तां प्रातः सोमप्रभां सखीम् । कलिङ्ग सेना विश्रम्भात्कथां कुर्वत्युवाच सा ॥ १
मां प्रसेनजिते राज्ञे तातो दास्यति निश्चितम् । एतच्छुतं मयाम्बातो दृष्टो वृद्धः स च त्वया ॥ २
वत्सेशस्तु यथा रूपे त्वयैव कथितस्तथा । श्रुतिमार्गप्रविष्टेन हृतं तेन यथा मनः ॥ ३
तस्प्रसेनजितं पूर्व प्रदश्र्य नय तत्र माम् । आस्ते वत्सेधैरो यत्र किं तातेन किमस्बया ॥ ४
एवमुक्तवतीं तां च सोत्कां सोमप्रभाब्रवीत् । गन्तव्यं यदि तद्य(मो यत्रेण व्योमगामिना ॥ ५
किं तु सर्वे गृङ्ण त्वं निजं परिकरं यतः दृष्ट्वा वसेश्वरं भूयो नगन्तुमिह शक्ष्यसि ॥ ६
न च त्वं द्रक्ष्यसि पुनः पितरौ न स्मरिष्यसि । दूरस्थां प्राप्तदयिता विस्मरिष्यसि मामपि ॥ ७
नवमहमेष्यामि भर्तृवेश्मनि ते सखि । तच्छुत्वा राजकन्या सा रुदती तामभाषत ॥ ८
तर्हि वत्सेश्वरं तं त्वमिहैवानय मे सखि । नोत्सहे तत्र हि स्थातुं क्षणमेकं त्वया विना ॥ ९
नानिन्ये चानिरुद्धः किमुपायाचित्रलेखया। जानत्यपि तथा चैतां मत्तस्त्वं तत्कथां श्रुणु ॥ १०
बाणासुरस्य तनया बभूवोषेति विश्रुता । तस्याश्चाराधिता गौरी पतिप्राक्ष्यै वर ददौ ॥ ११
स्वप्ने प्राप्स्यसि यत्सङ्गं स ते भर्ता भवेदिति । ततो देवकुमारभं कंचित्स्वप्ने ददर्श सा ॥ १२
गन्धर्वविधिना तेन परिणीता तथैव च । प्रप्ततत्सत्यसंभोग प्रबुध्यत निशाक्षये ॥ १३
अदृष्ट्वा तं पतिं दृष्टं दृष्ट्वा संभोगलक्षणम् । स्मृत्वा गौरीवरं साभूत्स तद्वभयविस्मया ॥ १४
तम्यन्ती च ततः सा तं स्वप्ने दृष्टं प्रियं विना । पृच्छन्वै चित्रलेखायै सख्यै सर्वं शशंस तत् ॥ १५
सापि नामाद्यभिज्ञानं न किंचित्तस्य जानती। योगेश्वरी चित्रलेखा तमुषामेवमब्रवीत् ॥ १६
सखि देवीवरस्यायं प्रभावोऽत्र किमुच्यते । किं त्वभिज्ञानशन्यस्ते सोऽन्वेष्टव्यः प्रियः कथम् ॥ १७
परिजानासि चेत्तं ते ससुरासुरमानुषम् । जगलिखामि तन्मध्ये तं मे दर्शय येन सः ॥ १८
आनीयते मयेत्युक्ता सा तथेत्युदिते तया । चित्रलेखा क्रमाद्विश्वमलिखद्वर्णवर्तभिः ॥ १९