पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
[ आदितस्तर
कथसरित्सागरः

तथा च कथयाम्येतां राजन्नत्र कथां श्वणु । बभूव हरिशर्माख्यः कोऽपि प्रामे कचिद्विजः ॥
स दरिद्रश्च मूर्चश्व वृत्यभावेन दुःस्थितः। पूर्वदुष्कृतभोगाय जातोऽतिबहुबालकः॥
सकुटुम्बो भ्रमनिभक्षां प्राप्यैकं नगरं क्रमात् । शिश्रिये स्थूलदत्ताख्यं गृहस्थं स महाधनम् ॥
गवादिरक्षकान्पुत्रान्भार्या कर्मकरी निजाम् । तस्य कृत्वा गृहभ्यर्थं प्रैष्यं कुर्वन्नुबस सः ॥
एकदा स्थूलदत्तस्य सुतापरिणयोत्सवः । तस्याभूदागतानेकजन्ययात्राजनाकुलः ॥
तदा च हरिशमात्र तबृहे सकुटुम्बकः। आकण्ठधृतमांसादिभोजनास्थां बबन्ध सः ॥
तवेलां वीक्षमाणोऽथ स्मृतः केनापि नात्र सः । ततोऽनाहरनिर्विण्णो भार्यामित्यब्रवीन्निशि ॥
दारियादिह सौख्यच्च ममेदृशमगौरवम् । तदत्र कृत्रिमं युक्स्या विज्ञानं प्रयुनज्म्यहम् ॥
येनास्य स्थूलदत्तस्य भवेयं गौरवास्पदम् । त्वं प्राप्तेऽवसरे चास्मै ज्ञानिनं मां निवेद्य ॥
इत्युक्त्वा तां विचिन्त्यात्र धिया सुते जने हयः। स्थूळदत्तगृद्दत्तेन जनैं जामातृवाहनः ॥
दूरे प्रच्छन्नमेतेन स्थापितं प्रातरत्र तम् । इतस्ततो विचिन्वन्तोऽप्यधं जन्या न लेभिरे ॥।
अथामङ्गलवित्रस्तं हयचौरागवेषिणम् । हरिशर्मवधूरेत्य स्थूलदत्तमुवाच सा ॥
भर्ता मदीयो विज्ञानी ज्योतिर्विद्यादिकोविदः। अथै वो लम्भयत्येनं किमर्थं स न पृच्छयते ॥
तच्छुत्वा स्थूळदत्तस्तं हरिशर्माणमाह्वयत् । ह्यो विस्मृतो हृतेऽश्वे तु स्मृतोऽस्म्यद्येति वादिनम् ॥
विस्मृतं नः क्षमस्वेति प्रार्थितं ब्राह्मणं च सः । पप्रच्छ केनापहृतो हयो नः कथ्यतामिति ॥
हरिशर्मा ततो मिथ्या रेखाः कुर्वनुवाच सः। इतो दक्षिणसीमान्ते चौरैः संस्थापितो हयः ॥
प्रच्छन्नस्थो विनान्ते च दूरं यावन्न नीयते । तावदानीयतां गत्वा त्वरितं स तुरंगमः ॥
तच्छुत्वा धावितैः प्राप्य क्षणास बहुभिर्नरैः । आनिन्येऽश्वः प्रशंसद्भिर्विज्ञानं हरिशर्मणः ॥
ततो ज्ञानीति सर्वेण पूज्यमानो जनेन सः। उबास हरिशमंत्र स्थूलदत्तार्चितः सुखम् ॥
अथ गच्छत्सु दिवसेष्वत्र राजहान्तरात् । हेमरत्नादि चौरेण भूरि केनाप्यनीयत ॥
नाज्ञायत यदा 'चौरस्तदा ज्ञानिप्रसिद्धितः । आनाययामास नृपो हरिशर्माणमाशु तम् ॥
स चानीतः क्षिपन्कालं वक्ष्ये प्रातरिति ब्रुवन् । बासके स्थापितो ज्ञानविनो राज्ञासुरक्षितः ॥
तत्र राजकुले चासीन्नाम्ना जिवैति चेटिका। यया भ्रात्रा समं तच्च नीतमभ्यन्तरद्धनम् ॥
सा गत्वा निशि तत्रास्य वासके हरिशर्मणः । जिज्ञासया ददौ द्वारि कर्ण तज्ज्ञानशङ्किता ॥
हरिशर्मा च तत्कालमेककोऽभ्यन्तरे स्थितः । निजां जिह्वां निनिन्दैवं मृषाविज्ञानवादिनीम् ॥
भोगलम्पटया जिवे किमिदं विहितं त्वया । दुराचारे सहस्व त्वमिदानीमिह निग्रहम् ॥
तच्छुत्वा ज्ञानिनानेन ज्ञातास्मीति भयेन सा । जिह्वाख्या चेटिका युक्त्या प्रविवेश तदन्तिकम् ॥
पतित्वा पादयोस्तस्य ज्ञानिभ्यजनमब्रवीत् । ब्रह्मन्नियं सा जिह्वाहं त्वया ज्ञातार्थहारिणी ॥
नीत्वा तच्च मयास्यैव मन्दिरस्येह पृष्ठतः। उद्याने दाडिमस्याधो निखातं भूतले धनम् ॥
तद्रक्ष मां गृहाणेमं किंचिन्मे हेम हस्तगम् । एतच्छुत्वा सगर्वं स हरिशर्मा जगाद ताम् ॥
गच्छ जानाम्यहं सर्वं भूतं भव्यं भवत्तथा । स्वां तु नोद्धाटयिष्यामि कृपणां शरणागताम् ॥
यच हस्तगतं तेऽस्ति तद्दस्यसि पुनर्मम । इत्युक्ता तेन सा चेटी तथेत्याशु ततो ययौ ॥
हरिशर्मा च स ततो विस्मयादित्यचिन्तयत् । असाध्यं साधयत्यर्थ हेलयाभिमुखो विधिः ॥
यदिहोपस्थितेऽनर्थं सिद्धोऽर्थाऽशङ्कितं मम । स्वजिहां निन्दतो जिह्मा चौरी मे पतिता पुरः ॥
शङ्कयैव प्रकाशन्ते बत प्रच्छन्नपातकाः । इत्याद्यकलयन्सोऽत्र हृष्टो रात्रिं निनाय ताम् ॥
प्रातश्वीकविज्ञानयुक्त्या नीत्वा स तं नृपम् । तत्रोद्याने निखातस्थं प्रापयामास तद्धनम् ॥
चौरं चाप्यपनीतांशं शशंस प्रपलायितम् । ततस्तुष्टो नृपस्तस्मै ग्रामान्दातुं प्रचक्रमे ॥
कथं स्यान्मानुषागम्यं ज्ञानं शास्त्रं विनेदृशम् । तनूनं चौरसंकेतकृतेयं धूर्तजीविका ॥
तस्मादेषोऽन्यया युक्त्या धारमेकं परीक्ष्यताम् । देव ज्ञानीति कथं तं मन्त्री राजानमभ्यधात् ॥