पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ४ ।]
१३५
मदनमझुकालम्बकः ६ ।

सोऽपि शापान्तबद्धाशः काकं मातळिबोधितः । ऋच्छत्सहस्रानीकतां विनानैषीन्मृगावतीम् ॥ ५३
प्रप्त शापावसाने तु शबराद्विधियोगतः । उदयाद्रेरुपायातात्प्राप्याभिज्ञानमात्मनः ॥ ५४
आवेदितर्थस्तत्कालं गगनोन्नतग्रा गिरा । शबरं तं पुरस्कृत्य जगामैवोदयाचलम् ॥ ५५
तत्र वाञ्छितसंसिद्धिमिव प्राप्य मृगवतीम् । भार्यामुदयनं तं च मनोराज्यमिवारमजम् ॥ ५६
तैौ गृहीत्वाथ कौशाम्बीमागत्यैवाभिषिक्तवान् । यौवराज्ये तनूजं तं तद्वणोत्कर्षतोषितः ॥ ५७
यौगन्धरायणादींश्च तस्मै मन्त्रिसुतान्ददौ । तेनात्तभारो बुभुजे भोगान्भार्यासश्चिरम् ॥ ५८
कालेनारोप्य राज्ये च तमेवोदयनं सुतम् । वृद्धः सभार्यासचिवो ययौ राजा महापथम् ॥ ५९
एवं स पित्र्यं राज्यं तत्प्राप्य जित्वा ततोऽखिलम् । यौगन्धरायणसखः प्रशास्युदयनो महीम् ॥ ६०
इत्याशु कथयित्वा सा कथां सोमप्रभा रहः। सखीं कलिङ्गसेनां तां पुनरेवमभाषत ॥ ६१
एवं वत्सेषु राजत्वाद्वत्सराजः सुगात्रि सः । पाण्डवान्वयसंभूत्या सोमवंशोद्भवस्तथा ॥ ६२
नाम्नाप्युदयनः प्रोक्तो देवैरुदयजन्मना । रूपेण चत्र संसारे कंदर्पोऽपि न तादृशः ॥ ६३
स एकस्तव तुल्योSस्ति पतित्रैलोक्यसुन्दरि । स च वाञ्छति लावण्यलुब्धस्त्वां प्रार्थितां ध्रुवम् ॥ ६४
किं तु चण्डमहसेनमहीपतितनूत्वा । अस्ति वासवदत्ताख्या तस्याश्यमहिषी सखि ॥ ६५
तया स च वृतस्यक्त्वा बन्धवानतिरक्तया । उषाशकुन्तलादीनां कन्यानां हृतलज्जय ॥ ६६
नरवाहनदत्ताख्यस्तस्यां जातोऽस्य चात्मजः । आदिष्टः किल देवैर्यो भवी विद्याधराधिपः॥ ६७
अतस्तस्याः स वरसेशो बिभ्यत्त्वां नेह याचते । सा च दृष्टा मया न त्वां स्पर्धते रूपसंपदा ॥ ६८
एवमुक्तवतीं तां च सखीं सोमप्रभां तदा । कलिङ्गसेना बरसेशसोत्सुका निजगाद सा ॥ ६९
जानेऽहमेतद्वश्यायाः पित्रोः शक्यं तु कि मम । सर्वज्ञा सप्रभावा च तत्त्वमेवात्र मे गतिः ॥ ७०
दैवयत्तमिदं कार्यं तथा चत्र कथां श्रुणु । सोमप्रभा तामित्युक्त्वा शशंसास्यै कथामिमाम् ॥ ७१
राजा विक्रमसेनाख्य उज्जयिन्यामभूत्पुरा । तस्य तेजखतीत्यासीद्येणाप्रतिमा सुता ॥ ७२
तस्याश्चाभिमतः कश्चित्प्रायो नाभूद्रो नृपः। एकदा च ददशैकं पुरुषं सा स्वहणुगा ॥ ७३
स्वाकृतिना दैवात्संगतिं वाञ्छति स्म सा । स्वाभिप्रायं च संदिश्य तस्मै स्वां व्यसृजत्सखीम् ॥ ७४
सा गत्वा तसखी तस्य पुंसः साहसशङ्किनः । अनिच्छतोऽपि प्राध्यैवं यत्नात्संकेतकं व्यधात् ॥ ७५
एतद्देवकुलं भद्र विविक्तं पश्यसीह यम् । अत्र रात्रं प्रतीक्षेथा राजपुत्र्यास्त्वमागमम् ॥ ७६
इत्युक्त्वा सा तमामन्त्र्य गत्वा तस्यै तदभ्यधात् । तेजस्वत्यै ततः सापि तस्थौ सूर्यावलोकिनी ॥ ७७
पुमांश्च सोऽनुमन्यापि भयत्काप्यन्यतो यथैौ । न भेकः कोकनदिनीकिंजल्काखाकोविदः ॥ ७८
अत्रान्तरे च कोऽप्यत्र राजपुत्रः कुलझतः । मृते पितरि तन्मित्रं राजानं द्रष्टुमाययौ ॥ ७९
स चात्र सायं संप्राप्तः सोमदत्ताभिधो युवा । द्याहृतराज्यादिरेकाकी कान्तदर्शनः ॥ ८०
विवेश दैवातत्रैव नेतुं देवकुले निशाम् । राजपुत्र्याः सखी यत्र पुंसः संकेतमादिशत् ॥ ८१
तं तत्र स्थितमभ्येत्य राजपुत्र्यविभाव्य सा । निशायामनुरागान्धा स्वयंवरपतिं व्यधात् ॥ ८२
सोऽप्यभ्यनन्दत्तूष्णीं तां प्राज्ञो विधिसमर्पिताम् । संसूचयन्तीं भाविन्या राजलक्ष्म्या समागमम् ॥ ८३
ततः क्षणाद्राजसुता सा विलोक्यैवमेव तम् । कमनीयतमं मेने धात्रामानमवचितम्, ॥ ८४
अनन्तरं कथां कृत्वा यथास्वं संविदा तयोः। एका स्वमन्दिरमगादन्यस्तत्रानयान्निशाम् ॥ ८५
प्रातर्गत्वा प्रतीहारमुखेनावेद्य नाम सः । राजपुत्रः परिज्ञातो राज्ञः प्राविशदन्तिकम् ॥ ८६
तत्रोक्तराज्यहरादिदुःखस्य स कृतादरः । अङ्गीचक्रे सहायत्वं राजा तस्यारिमर्दने ॥ ८७
मतिं चक्रे च तां तस्मै दातुं प्राग्दित्सितां सुताम् । मञ्जिभ्यश्च तदैवैतमभिप्रायं शशंस सः ॥ ८८
अथैतस्मै च राज्ञे तं सुतावृत्तान्तमभ्यधात् । देवी स्वा बोधिता पूर्वं तथैवाप्तसखीमुखैः ॥ ८९
असिद्धानिष्टसिद्धेष्टकाकतालीयविस्मितम् । ततस्तं तत्र राजानमेको मी तदाब्रवीत् ॥ ९०
विधिरेव हि जागर्ति भव्यानामर्थसिद्धिषु । असंचेतयमानानां सङ्गत्यः स्वामिनामिव ॥ ९१