एवं महत्तराच्छुत्वा तं तथेत्यभिनन्द्य च । प्रहृष्टो हेमवल्लवैर्वत्सराजोऽभ्यपूजयत् ॥ ५९
आहूय चाब्रवीन्मत्रिमुख्यं यौगन्धरायणम् । राज्ञः कलिङ्गदत्तस्य ख्यात रूपा क्षितौ सुता ॥ ६०
स्वयं कलिङ्गसेनाख्या वरणाय ममागता । तद्रुहि शीघ्रमत्याज्यां कद परिणयामि ताम् ॥ ६१
इत्युक्तो वत्सराजेन मन्त्री यौगन्धरायणः । अस्यायतिहितापेक्षी क्षणमेवमचिन्तयत् ॥ ६२
कलिङ्गसेना सा तावत्ख्यातरूपा जगत्रये । नास्त्यन्या तादृशी तस्यै स्पृहयन्ति सुरा अपि ॥ ६३
तां लब्ध्वा वत्सराजोऽयं सर्वमन्यत्परित्यजेत् । देवी वासवदत्त च ततः प्राणैर्वियुज्यते ॥ ६४
नरवाहनदत्तोऽपि नश्येद्राजसुतस्ततः । पद्मघत्यपि तत्स्नेहाद्देवी जीवति दुष्करम् ॥ ६५
ततश्चण्डमहासेनप्रद्योतौ पितरौ द्वयोः। देव्योर्विभुञ्चतः प्राणान्विकृतिं वापि गच्छतः ॥ ६६
च सर्वनाशः स्यान्न च युक्तं निषेधनम् । राज्ञोऽस्य व्यसनं यस्माद्वरितस्याधिकीभवेः ॥ ६७
तस्मादनुप्रवेशस्य सिद्धयै कालं हराम्यहम् । इत्यालोच्य स वत्सेशं प्राह यौगन्धरायणः ॥ ६८
देव धन्योऽसि य यैषा स्वयं ते गृहमागता । कलिङ्गसेना भृत्यत्वं प्राप्तचैतत्पितनृपः ॥ ६९
तत्त्वया गणकान्पृष्ट्वा सुलग्नेऽस्या यथाविधि । कार्यः पाणिग्रहो राज्ञो हतो दुहिता ह्यसौ ॥ ७०
अद्यस्या दीयतां तावद्योग्यं वासगृहं पृथकू। दासीदसा विद्युज्यन्तां वस्त्राण्याभरणानि च ॥ ७१
इत्युक्तो मन्त्रिमुख्येण वत्सराजस्तथेति तत् । प्रहृष्टहृदयः सर्वे सविशेषं चकार सः ॥ ७२
कलिङ्ग सेना च ततः प्रविष्टा वासवेश्म तत् । स्वमनोरथमासन्नं मत्वा प्राप परां मुदम् ॥ ७३
यौगन्धरायणः सोऽपि क्षणाद्राजकुलात्ततः। निर्गत्य स्वगृहं गत्वा धीमानेवमचिन्तयत् ॥ ७४
प्रायोऽशुभस्य कार्यस्य कालहरः प्रतिक्रिया । तथा च वृत्रशत्रौ प्राग्ब्रह्महत्यापलायिते ॥ ७५
देवराज्यमवाप्तेन नहुषेणाभिवाञ्छिता । रक्षिता देवगुरुणा शची शरणमाश्रिता ॥ ७६
अद्य प्रातरुपैति त्वामित्युक्त्वा कालहरतः । यावत्स नष्टो नहुषो हुंकाराद्रह्मशापतः ॥ ७७
प्राप्तश्च पूर्ववच्छक्रः स पुनर्देवराजताम् । एवं कलिङ्गसेनाएँ कालः क्षेप्यो मया प्रभोः ॥ ७८
इति संचिन्त्य सर्वेषां गणकानां स संविदम् । दूरलग्नप्रदानाय मन्त्री श्रेष्ठं व्यधत्तदा ॥ ७९
थ विज्ञाय वृत्तान्तं देव्या वासवदत्तया । आहूय स महामन्त्री स्वमन्दिरमनीयत ॥ ८०
तत्र प्रविष्टं प्रणतं रुदती सा जगाद तम् । आर्य पूर्व त्वयोक्तं मे यथा देवि मयि स्थिते ॥ ८१
पझावत्या एते नान्या सपत्नी ते भविष्यति । कलिङ्गसेनष्यचैष पश्येह परिणेष्यते ॥ ८२
सा च रूपवती तस्यामार्यपुत्रश्च रज्यति । अतो वितथवादी त्वं जातोऽहं च मृताधुना ॥ ८३
तच्छुत्वा तामवोचत्स मत्री यौगन्धरायणः । धीरा भव कथं हेतद्देवि स्यान्मम जीवतः ॥ ८४
त्वया । तु नात्र कर्तव्या राज्ञोऽस्य प्रतिकूलत । प्रत्युतालम्ब्य धीरत्वं दर्शनीयानुकूलता ॥ ८५
नातुरः प्रतिकूलो क्तैर्वशे वैद्यस्य वर्तते । वर्तते त्वनुकूलो तैः सानैवाचरतः क्रियाम् ॥ ८६
प्रतीपं कृष्यमाणो हि नोत्तरेदुत्तरेन्नरः। वामनोऽनुकूलं तु नोद्योगाव्यसनात्तथा ॥ ८७
अतः समीपमायान्तं राजानं त्वमविक्रिया । उपचरैरुपचरेः संवृत्याकारमात्मनः ॥ ८८
कलिङ्गसेना स्वीकारं श्रद्दध्यास्तस्य सांप्रतम् । वृद्धिं ब्रुवाणा राज्यस्य सहये तत्पितर्यपि ॥ ८९
एवं कृते च माहात्म्यगुणं दृष्ट्वा परं तव । प्रवृद्धस्नेहदाक्षिण्यो राजासौ भवति त्वयि ॥ ९०
मत्वा कलिङ्गसेनां च स्वधीनां नोत्सुको भवेत् । वार्यमाणस्य वाञ्छा हि विषयेष्वभिवर्धते ॥ ९१
देवी पद्मावती चैतच्छिक्षणीया त्वयानघे । एवं स राजा कार्येऽस्मिन्कालक्षेपं सहेत नः ॥ ९२
अतः पर च जानेऽहं पश्येद्युक्तिबलं मम । संकटे हि परीक्ष्यन्ते प्राज्ञः शशूराश्व संगरे ॥ ९३
तदेवि मा विषण्णा भूरिति देवीं प्रबोध्य ताम् । तयाहतोक्तिः स ययौ ततो यौगन्धरायणः ॥ ९४
वत्सेश्वरश्च तदहर्न दिवा न रात्रौ देव्योर्दूयोरपि स वासगृहं जगाम ।
तादृक्खयंवररसोपनमत्कलिङ्गरसेनासमाननवसंगमसोत्कचेताः ॥ ९५
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ५ । ]
१३९
मदनमझुकालम्बुकः ६ ।