पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आदितस्तरङग: ३]
क्थासरित्सागर: ।

कदाचिव्योममार्गेण विरहन्तं महेश्वरम् । अङ्कस्था स्कन्दजननी तं हषट्वा सदयावदत् ॥ १६

देव पश्य शिशावस्मिन्नेतास्तिस्त्रोअपि योषित: । बद्धस्नेहा दधत्याशामेषोस्मञजीवयेदिति ॥ १७

तत्त्था कुरु येनायमेता बालोपि जीवयेत् । इत्युक्त: प्रियया देवो वरद: स जगाद ताम ॥ १८

अनुगृहाम्यमुं पूर्वे सभार्येणामुना यत: । आराधितोस्मि तेनायं भोगार्थं निर्मितो भुवि ॥ १९

एतज्जाया च सा जाता पाटली नाम भूपते: । महेन्द्रवर्मण: पुत्री भार्यास्यैव भविष्यति ॥ २०

इत्युक्त्वा स विनु: स्वप्रे साध्वीस्तिस्त्रो जगाद् ता: । नन्न पुत्रक एवायं युष्माकं बालपुत्रक: ॥ २१

अस्य सुप्तप्रबुद्धस्य शीर्षान्ते च दिने दिने । सुवर्णलक्षं भविता राज: चायं भविष्यति ॥ २२

तत: सुप्तोत्थिते तस्मिन्वले ता: प्राप्य काञजनम् । यञ्यदत्तसुता: साध्व्यो ननन्दु:फलितव्रता:॥ २३

अथ तेन सुवर्णैन बुद्धकोषोचिरेण स: । बभूव पुत्रको राजा तपोधीना हि संपद: ॥ २४

कदाचिघञदतत्तोथ रह: पुत्रकमब्रवीत् । राजन्दुर्भिक्षदोषेण कापि ते पितरो गता: ॥ २५

तत्सदा देहि विप्रेभ्यो येनायान्ति निशम्य ते । व्रहादत्तकथां चैतां कथयाम्यत्र ते ऋणु ॥ २६

वाराणस्यामभूत्पूर्वं ब्रह्दत्ताभिधो नृप: । सोपश्यद्थंसयुगलं प्रयातं गगने निशि ॥ २७

विस्पुरत्कनच्छायं राजहंसशतैर्बुतम् । विधुत्पुञजमिवाकाण्डसिताभ्रपरिवेष्टितम् ॥ २८

पुनस्तहर्शनोत्कण्ढा तथास्य ववृधे तत: । यथा नृपतिसौख्येषु न बबन्ध रतिं कचित् ॥ २९

मब्रिमि: सह सं मन्य ततश्चाकारयत्सर:। स राजा स्वमते कान्तं प्राणिनां चामयं ददौ ॥ ३०

तत: कालेन तौ प्राप्तौ हंसौ राजा ददर्श् स:। विश्वस्तौ चापि प्रपच्छ हैमे वपुषि कारणम् ॥ ३१

व्यक्तवाचौ ततस्तौ च हंसौ राजानमूवचतु:। पुरा जन्मान्तरे काकावावां जातौ महीपते ॥ ३२

बल्यर्थं युद्धमानो च पुण्ये शून्ये शिवालये । विनिपत्य विपन्नौ स्वस्तस्थानद्रोणिकान्तरे ॥ ३३

जातौ जातिस्मरावावां हंसौ हेममयौ तत:। तच्छुत्वा तौ यथाकामं पश्यन्र्राजा तुतोष स:॥ ३४

अतोनन्याह्शादेव पितॄन्दानादवाप्स्यसि । इत्युक्तो यञदत्तेन पुत्रकस्तत्तथाकरोत् ॥ ३५

श्रुत्वा प्रदानवार्ता तामाययुस्ते द्विजातय:।परिञता: परां लक्ष्मिं पस्त्रीश्च सह लेभिरे ॥ ३६

आश्चर्यमपरित्याज्यो हष्टनष्टापदामपि । अविवेकान्धबुद्धीनां खानुभावो दुरात्मनाम् ॥ ३७

कालेन राज्यकामास्ते पुत्रकं तं जिथांसव:। निन्युस्तदर्शनव्याजाद्दिजा विन्ध्यनिवासिनीम् ॥ ३८

वधकात्स्थापयित्वा च देवी गर्भगृहान्तरे । तमूचु: पूर्वमेकस्त्वं पश्य देवीं व्रजान्तरम् ॥ ३९

तत: प्रविष्टो विश्वासात्स हष्ट्वा हन्तुमुघतान् । पुरुषान्पुत्रकोपृच्छत्कस्मान्निहथ भामिति ॥ ४०

पितृभिस्ते प्रयुक्ता: स्म: स्वर्ण्ं दत्वेति चात्रुवन् । ततस्तान्मोहितान्देव्या बुद्धिमान्पुत्रकोवदत् ॥ ४१

ददाम्येहतदनर्घे वो रत्रालंकरणं निजम् । मां मुश्चत करोम्यत्र नोद्वेदं यामि दूरत: ॥ ४२

एवमस्त्विति तत्तत्मागृहीत्वा वघका गता:। हत:पुत्रक इत्यूचुस्तत्पितॄणां पुरो मृषा ॥ ४३

तत: प्रतिनिवृत्तास्ते हता राज्यार्थिनो द्विजा:।मन्त्रिमिद्रोहिणो बुद्धवा कृतघनानं शिवं कुत:॥ ४४

अत्रान्तरे स राजापि पुत्रक: सत्यसंगर:।विवेश विन्ध्यकान्तारं विरक्त: स्वेषु बन्धुषु ॥ ४५

भ्रमन्ददर्श तत्रासौ बाहुयुद्धैकतत्परौ । पुरुषौ द्वौ ततस्तौ स पृष्टवान्कौ युवामिति ॥ ४६

मयासुरसुतावावां तदीयां चस्ति नौ धनम् । इदं भाजनमेषा च यष्टिरेते च पादुके ॥ ४७

एतन्निमितं युद्धं नौ यो बली स हरेदिति । एतत्तद्वचनं श्रृत्वा हसन्प्रोवाच पुत्राक: ॥ ४८

कियदेतद्धनं पुंसस्ततस्तौ समवोचताम् । पदुके परिघायैते खेचरत्वमवाप्यते ॥ ४९

यह्या यल्लिख्यते किंचित्सत्यं संपघते हि तत् । भाजने यो य आहारश्चिन्त्यते स स तिष्ठति॥ ५०

तच्छुत्वा पुत्रकोवादीत्किं युद्धेनास्त्वयं पण:। घावन्चलाधिको य: स्यत्स एवैतद्वरेदिति ॥ ५१

एवमस्त्विति तौ मूढौ धावितौ सोपि पादुके । अध्यास्योदपतद्वयोम गृहीत्वा यष्टिभाजने ॥ ५२

अथ दूर्ं क्षणाद्रत्वा ददर्श नगरीं शुभम् । आकर्षिकाख्यां तस्यं च नभसोवततार: स: ॥ ५३

वञचनप्रवणा वेश्या द्विजा मप्तितरो यथा । वणिजो धनलुब्धाश्च कस्य गेहे वसाम्यहम् ॥ ५४