इति संचिन्तयन्प्राप स राजा विजनं गृहम् । जीर्णे तदन्तरे चैकां वृद्धां योषितमैक्षत । ५५
प्रदन पूर्व संतोष्य तां वृद्धासाहतस्तया । उचसालक्षितस्तत्र पुत्रकः शीर्णासद्मनि ॥ ५६
कदाचिसाथ संप्रीता वृद्धा पुत्रकमब्रवीत् । चिन्ता मे पुत्र यद्भयं नानुरूपा तव कचित् ॥ ५७
इह राज्ञस्तु तनया पाटलीत्यस्ति कन्यका । उपर्यन्तःपुरेसा च रत्नमिस्थभिरक्ष्यते ॥ ५८
एतवृद्धावचस्तस्य दत्तकर्णस्य शृण्वतः । विवेश तेनैव पथा लब्धरंध्रो हृदि स्मरः ॥ ५९
द्रष्टव्या सा मया चैत्र कान्तेति कृतनिश्चयः । निशायां नभसा तत्र पादुकाभ्यां जगाम सः ॥ ६०
प्रविश्य सोऽद्रिशृङ्गाम्रतुङ्गवातायनेन ताम् । अन्तःपुरे ददर्शाथ मुन्नां रहसि पाटलीम् ॥ ६१
सेव्यमानामविरतं चन्द्रकान्याङ्गलग्नया । जित्वा जगदिवं आन्तां मूर्ती शक्तिं मनोभुवः ॥ ६२
कथं प्रबोधयाम्येतामिति यावदचिन्तयत् । इत्यकस्माद्वहिस्तावद्यासिकः पुरुषो जगौ ॥ ६३
आलिङ्गय मधुरहुंकृतिमलसोन्मिषदीक्षणां रहः कान्ताम् ।
यद्वोधयन्ति सुप्तां जन्मनि यूनां तदेव फलम् ॥ ६४
श्रुत्वैवैतदुपोद्धातमद्वैरुत्कम्पविद्ध्वैः । आलिलिङ्ग स तां कान्तां प्राबुध्यत ततश्व सा ॥ ६५
पश्यन्त्यास्तं नृपं तस्या लकौतुकयोर्दशि । अभूदन्योन्यसंमदं रचयन्त्यां गतागतम् ॥ ६६
अथाळापे कृते वृत्ते गन्धर्वोद्वाह्यकर्मणि । अवर्धत तयोः प्रीतिदंपत्योर्न तु यामिनी ॥ ६७
आमञ्याथ वधूमुत्कां तद् तेनैव चेतसा । आययौ पश्चिमे भागे तवृद्धावेश्म पुत्रकः ॥ ६८
इत्थं प्रतिनिशं तत्र कुर्वाणेऽस्मिन्गतागतम् । संभोगचिहं पाटल्या रक्षिभिीष्टमेकदा ॥ ६९
वैस्तदावेदितं तस्याः पितुः सोऽपि नियुक्तवान् । गूढमन्तःपुरे तत्र निशि नारीमवेक्षितुम् ॥ ७०
तया च तस्य प्राप्तस्य तत्राभिज्ञानसिद्धये । पुत्रकस्य प्रसुप्तस्य न्यस्तं वाखस्यलक्तकम् ॥ ७१
प्रातस्तया च विज्ञप्तो राजा चारान्व्यसर्जयत् । सोऽभिज्ञानाच तैः प्राप्तः पुत्रको जीर्णवेश्मनः
॥ ७२
आनीतो राजनिकटं कुपितं वीक्ष्य तं नृपम् । पादुकाभ्यां खमुत्पत्य पाटलीमन्दिरेऽविशत् ॥।७३
विदितौ स्वस्तदुत्तिष्ठ गच्छावः पादुकावशात् । इत्यब्रे पटलीं क्रुस्वा जगाम नभसा ततः ॥ ७४
अथ गङ्गातटनिकटे गगनादवतीर्य स प्रियां श्रान्ताम् ।
पात्रप्रभावजातैराहारैर्नन्दयामास ॥ ७५
आलोकितप्रभाव पाटल्य पुत्रकोऽर्थतश्च ततः ।
यया लिलेख तत्र स नगरं चतुरङ्गयनुयुक्तम् ॥ ७६
तत्र स राजा भूत्वा महाप्रभावे च सत्यतां प्राप्ते ।
नमयित्वा तं श्वशुरं शशास पृथ्वीं समुद्रान्ताम् ॥ ७७
तदिदं दिव्यं नगरं मायारचितं सपौरमत एव ।
नाना पाटलिपुत्रं क्षेत्रं लक्ष्मीसरस्वत्योः ॥ ७८
इति वर्षमुखादिमामपूर्वी वयमाकण्यै कथामतीव चित्राम् ।
चिरकालमभूम काणभूते विलसद्विस्मयमोदमानचित्ताः ॥ ७९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरिस्सागरे कथापीठलम्बके तृतीयस्तरङ्गः ।
*****
चतुर्थेतरङ्गः ।
इत्याख्याय कथां मध्ये विन्ध्यान्तः काणभूतये । पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्णयत् ॥ १
एवं व्याडीन्द्रदत्ताभ्यां सह तत्र वसन्क्रमात् । प्राप्तोऽहं सर्वविद्यानां पारमुत्क्रान्तशैशवः ॥ २
इन्द्रोत्सत्रं कदाचिच प्रेक्षितुं निर्गता वयम् । कन्यामेकामपश्याम कामस्यास्त्रमसायकम् ॥ ३
इन्द्रद्न्तो मया पृष्टस्ततः केयं भवेदिति । उपवर्षसुत सेयमुपकोशेति सोऽब्रवीत् ॥ ४
सा सखीभिश्च मां ज्ञात्वा प्रीतिपेशलया दृशा । कर्षन्ती सन्मनः कृच्छादगच्छद्भवनं निजम् ॥ ५