तत्र तस्यैव कैवर्तपतेः सस्यव्रतस्य स । शफरग्राहिभिभूयैः प्राप्य दैवादगृह्यत ॥ ४९
ते च तं सुमहाकायं निन्युराकृष्य कौतुकात् । तदैव धीवरास्तस्य निजस्य स्वामिनोऽन्तिकम् ॥ ५०
सोऽपि तं तादृशं दृष्ट्वा तैरेव सकुतूहलः । पाठीनं पाटयामास भृत्यैः सत्यव्रतो निजैः ॥ ५१
पाटितस्योदराज्जीवशक्तिदेवोऽथ तस्य सः अनुभूतापराध्येंगर्भवासो विनिर्ययौ ॥ ५२
निर्यातं च कृतस्वस्तिकरं तं च सविस्मयः । युवानं वीक्ष्य पप्रच्छ दाशः सत्यव्रतस्ततः ॥ ५३
कस्त्वं कथं कुतश्चैषा शफरोदशायिता । ब्रह्मांस्त्वयाप्त कोऽयं ते वृत्तान्तोऽत्यन्त मद्धतः ॥ ५४
तच्छुत्वा शक्तिदेवस्तं दशेन्द्रं प्रत्यभाषत । अह्मणः शक्तिदेवाख्यो वर्धमानपुरादहम् ॥ ५५
अवश्यगम्या कनकपुरी च नगरी मया । अजानानश्च तां दूराद्धान्तोऽस्मि सुचिरं भुवम् ॥ ५६
ततो दीर्घतपोवाक्यात्संभव्य द्वीपगां च ताम् । तज्ज्ञप्तये दशपतेरुत्स्थलीषवासिनः ॥ ५७
पार्श्व सस्यव्रतस्याहं गच्छन्वहनभङ्गतः । मनोऽम्बुधौ निगीर्योऽहं मत्स्येन प्रापितोऽधुना ॥ ५८
इत्युक्तवन्तं तं शक्तिदेवं सत्यव्रतोऽब्रवीत् । सत्यव्रतोऽहमेवैतद्वीपं तन्चेदमेव ते ॥ ५९
किं तु दृष्टा बहुद्वीपदश्वनपि न सा मया । नगरी स्वदभिप्रेता द्वीपान्तेषु श्रुता पुनः ॥ ६०
इत्युक्त्या शक्तिदेवं च विषण्णं वीक्ष्य तत्क्षणम् । पुनरभ्यागतप्रीत्या तं स सस्यव्रतोऽभ्यधात् ॥ ६१
ब्रह्मन्म गा विषादं त्वमिहैवाद्य निशां वस । प्रातः कंचिदुपायं ते विधस्यासीष्टसिद्धये ॥ ६२
इयाश्वस्य स तेनैव दाशेन प्रहितस्ततः । सुलभातिथिसत्करं द्विजो विप्रमठं ययौ ॥ ६३
तत्र तद्वासिनैकेन कृताहारो द्विजन्मना । विष्णुदत्ताभिधानेन सह चक्रे कथाक्रमम् ॥ ६४
तत्प्रसङ्गाश्च तेनैव पृष्ठतस्मै समासतः । निजं देशं कुलं कृत्स्नं वृत्तान्तं च शशंस सः ॥ ६५
तदुङ् परिरभ्यैनं विष्णुदत्तः स तत्क्षणम् । बभाषे हर्षबाष्पाम्बुघर्घराक्षरजर्जरम् ॥ ६६
दिया सातुलपुत्रस्त्वमेकदेशभवश्व से । अहं च बाल्य एव प्राक्तस्माद्देशादिहागतः ॥ ६७
तदिहैवस्व न चिरात्साधयिष्यति चात्र ते । इष्टं देएपन्तरागच्चद्वणिक्कर्नपरंपराः ॥ ६८
इत्युक्त्वान्वयमावेद्य विष्णुदत्तो यथोचितैः । तं शक्तिदेवं तत्कालमुपचारैरुपाचरत् ॥ ६९
शक्तिदेवोऽपि संप्राप विस्मृताध्यक्लमो मुदम् । विदेशे बन्धुलाभो हि मरावमृतनिर्हरः ॥ ७०
अमंस्त च निजाभीष्टसिद्धिमभ्यर्णवर्तिनीम् । अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् ॥ ७१
ततो रात्रावनिद्रस्य शयनीये निषेदुषः । अभिवाञ्छितसंप्राप्तिगतचित्तस्य तस्य स ॥ ७२
शतिहदेवस्य पार्श्वस्थो विष्णुदत्तः समर्थनम् । विनोदपूर्वकं कुर्वन्कथां कथितवानिमाम् ॥ ७३
पुराभूदुमहाविप्रो गोविन्दस्वामिसंज्ञकः महग्रहरे कालिन्द्या उपकण्ठनिवेशिनि ॥ ७४
जायेते स्म च तस्य .द्वौ सदृशौ गुणशालिनः । अशोकदत्तो विजयदत्तश्चेति सुतौ क्रमात् ॥ ७५
कालेन तत्र वसतां तेषामजनि दारुणम् । दुर्भिक्षे तेन गोविन्दस्वामी भार्यामुवाच सः ॥ ७६
अयं दुर्भिक्षदोषेण देशस्तावद्विनाशितः। तन्न शक्नोम्यहं द्रष्टुं सुहृद्गन्धवदुतिम् ॥ ७७
दीयते च कियत्कस्य तस्मादन्नं यदस्ति नः त दत्त्वा मित्रयन्धुभ्यो व्रजामो विषयादितः ॥ ७८
वाराणसीं च वासाय सकुटुम्बः श्रयामहे । इत्युक्तय सोऽनुमतो भार्ययान्नमदान्निजम् ॥ ७९
सदारसुतभृयश्च स देशात्प्रययौ ततः । उत्सहन्ते नहि द्रष्टुमुत्तमः स्वजनापदम् ॥ ८०
गच्छंश्च मागें जटिलं भस्मपाण्डं कपालिनम् । सार्धचन्द्रमिवेशानं महाव्रतिनमैक्षत ॥ ८१
उपेत्य ज्ञानिनं तं च नत्वा स्नेहेन पुत्रयोः । शुभाशुभं स पप्रच्छ सोऽथ योगी जगाद तम् ॥ ८२
पुत्रौ ते भाविकल्यणौ किं त्वेतेन कनीयसा । ब्रह्मन्विजयदत्तेन वियोगस्ते भविष्यति ॥ ८३
ततोऽस्यशोकदत्तस्य द्वितीयस्य प्रभावतः । एतेन सह युष्माकं भूयो भावी समागमः ॥ ८४
इत्युक्तस्तेन गोविन्दस्वामी स ज्ञानिना तदा । सुखदुःखाद्भुताक्रन्तस्तमामभ्य ततो ययौ ॥ ८५
प्राप्य वाराणसीं तां च तद्वधे चण्डिकागृहे । दिनं तत्रातिचक्राम देवीपूजादिकर्मणा ॥ ८६
सायं च तत्रैव बहिः सकुटुम्बस्तरोस्तले । समावसत्कार्पटिकैः खोऽन्यदेशागतैः सह ॥ ८७
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०६
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
[ आदितस्तरङ्गः २५ ।
कथासरित्सागरः ।