पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २।]
१०१
चतुर्दारिकालम्बकः ५ ।

जलसंगतिहीनायामप्यहो सुलभापदि । सततोल्लड्डूयमानायामपि दूरीभवद्भुवि ॥ १०

दिवसैर्दूरमध्वानमतिक्रम्य ददशे सः। एकान्ते शीतलस्वच्छसलिलं सुमहत्सरः ॥ ११

पुण्डरीकच्चैितच्छत्रं प्रोल्लसद्धेसचामरम् । कुर्वाणमिव सर्वेषां सरसामधिराजताम् ॥ १२

तस्मिन्ननादि कृत्वा च तत्पश्र्वे पुनरुत्तरे । अपश्यदाश्रमएदं सफलनिग्धपापम् ॥ १३

तत्राश्वरथतरोर्मुले निषण्णं तापसैर्युतम् । स सूर्यतपरं नाम स्थविरं मुनिमैक्षत ॥ १४

स्ववयोब्दशतश्रन्थिसंख्ययेवाक्षमालया । जराधवलक्षणप्रसंश्रयिण्या विराजितम् ॥ १५

प्रणामपूर्वकं तं च मुनिमभ्याजगाम सः तेनाप्यतिथिसत्कारैर्मुनिना सोऽभ्यनन्द्यत ॥ १६

अपृच्छथत च तेनैव संविभज्य फलादिभिः। कुतः प्राप्तोऽसि गन्तासि क च भद्रोच्यतामिति ॥ १७

वर्धमानपुरात्तावद्भगवन्नहमागतः । गन्तुं प्रवृत्तः कनकपुरीमस्मि प्रतिज्ञया ॥ १८

न जाने के भवेत्सा तु भगवान्वक्तुं वेत्ति चेत् । इति तं शक्तिदेवोऽपि स प्रह्वो मुनिमभ्यधात् ॥ १९

वत्स वर्षशतान्यष्टौ ममाश्रमपदे त्विह । अतिक्रान्तानि न च सा श्रुतापि नगरी सय ॥ २०

इति तेनापि मुनिना गदितः स विषादवान् । पुनरेवाब्रवीत्तर्हि मृतोऽस्मि मां भ्रमन्निह ॥ २१

ततः क्रमेण ज्ञातार्थः स मुनिस्तमभाषत । यदि ते निश्चयस्तर्हि यदहं वच्मि तत्कुरु ॥ २२

अस्ति काम्पिल्यविषयो योजनानां शतेष्वितः। त्रिषु तत्रोत्तराख्यश्च गिरिस्तत्रापि चाश्रमः ॥ २३

तत्रार्योऽस्ति मम भ्राता ज्येष्ठो दीर्घतपा इति । तपाईं ब्रज जानीयात्स वृद्धो जातु तां पुरीम् ॥ २४

एतच्छुत्वा तथेत्युक्त्व जातास्थस्तत्र तां निशाम् । नीत्वा प्रतस्थे स प्रातः शक्तिदेवो हुतं ततः ॥ २५

क्लेशातिक्रान्तकान्तारशतश्चासाद्य तं चिरात् । काम्पिल्यविषयं तस्मिन्नरुरोहोत्तरे गिरौ ॥ २६

तत्र तं दीर्घतपसं मुनिमाश्रमद्यार्तिनम् । दृष्ट्वा प्रणस्य च प्रीतः कृतातिथ्यमुपाययौ ॥ २७

व्यजिज्ञपच कनकपुरीं राजसुतोदिताम् । प्रस्थितोऽहं न जानामि भगवन्कारित सा पुरी ॥ २८

सा च मेऽवश्यगन्तव्या तप्तस्तदुपलब्धये । ऋषिणा सूर्यतपसा प्रेषितोऽस्मि तवान्तिकम् ॥ २९

इत्युक्तवन्तं तं शक्तिदेवं सोऽप्यब्रवीन्मुनिः। इयता बयसा पुत्र पुरी खाद्य श्रुता मया ॥ ३०

देशान्तरागतैः कैः कैर्जातः परिचयो न मे । न च तां श्रुतवानस्मि दूरे तद्दर्शनं पुनः ॥ ३१

जानाम्यहं च नियतं दवीयसि तया काचित् । भाव्यं द्वीपान्तरे बरस तत्रोपायं च वच्मि ते ॥ ३२

अस्ति वारिनिधेर्मध्ये द्वीपमुस्थलसंज्ञकम् । तत्र सत्यव्रताख्योऽस्ति निषादोधिपतिर्धनी ॥ ३३

तस्य द्वीपान्तरेष्वरित सर्वेष्वपि गतागतम् । तेन सा नगरी जातु भवेदृष्टा श्रुतापि वा। ॥ ३४

तस्मात्प्रयाहि जलधेरुपकण्ठप्रतिष्ठितम् । नगरं प्रथमं तावद्विटङ्कपुरसंज्ञकम् ॥ ३५

ततः केनापि वणिजा समं प्रवहणेन तत् । निषादस्यास्पदं गच्छ द्वीपं तस्येष्टसिद्धये ॥ ३६

इत्युक्तस्तेन मुनिना शक्तिदेवः स तत्क्षणम् । तथेत्युक्त्वा तममन्थ प्रयाति स्म तदाश्रमात् ॥ ३७

कालेन प्राप्य 'चोलध्य देशान्क्रोशान्बहूंश्च सः । वारिधेस्तीरतिलकं तद्विटङ्कपुरं पुरम् ॥ ३८

तस्मिन्समुद्रदत्ताख्यमुत्स्थलीपयायिनम् । अन्विष्य वाणिजं तेन सह सख्यं चकार सः ॥ ३९

तदीयं यानपात्रं च समं तेनाधिरुह्य सः। तत्प्रीतिपूर्णपाथेयः प्रतस्थेऽम्बुधिवर्मना ॥ ४०

ततोऽल्पदेशे गन्तब्ये समुत्तस्थाबशङ्कितम् । कालो विद्युल्लताजिकं गर्जन्पर्जन्यराक्षसः ॥ ४१

लघूनुन्नमयन्भावान्गुरूनभ्यवपातयन् । ववौ विधेरिवारम्भः प्रचण्डश्च प्रभञ्जनः ॥ ४२

वाताहताश्च जलधेरुदतिष्ठन्महोर्मयः आश्रयाभिभबक्रोधादिव शैलः सपक्षकाः ॥ ४३

ययौ च तप्रवहणं क्षणमूर्वमधः क्षणम् । उच्छायपातपर्यायं दर्शयद्धनिनामिव ॥ ४४

क्षणान्तरे च वणिजामाक्रन्दैस्तीव्रपूरितम् । भरादिव तदुत्पत्य वहनं समभज्यत ॥ ४५

भने च तस्मिस्तत्स्वामी स वणिक्पतितोऽम्बुधौ । तीर्ण: फळइकारूढः प्राप्यान्यङ्गहनं चिरात् ॥ ४६

शक्तिदेवं पतन्तं तु तं व्यात्तमुखकंदरः। अपरिक्षतसर्वाङ्गं महामत्स्यो निगीर्णवान् ॥ ४७

स च मत्स्योऽब्धिमध्येन तत्कालं स्वेच्छया चरन् । उस्थलीपनिकटं जगाम विधियोगतः ॥ ४८