पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २।]
१०३
चतुर्दारिकालम्बकः ५ ।

रात्रौ च तत्र सुप्तेषु सर्वेष्वधिगताध्वसु । आन्तेष्वास्तीर्णपर्णादिपान्थशय्यानिषादिषु ॥ ८८

तदीयस्य विबुद्धस्य तस्याकस्मात्कनीयसः । सूनोर्विजयदत्तस्य महाञ्शीतज्वरोऽजानि ॥ ८९

स तेन सहसा भाविबन्धुविश्लेषहेतुना । भयेनेव ज्वरेणादूर्ध्वरोमा सवेपथुः ॥ ९०

शीतार्तश्च प्रबोध्यैव पितरं स्वमुवाच तम् । बाधते तात तीको मामिह शीतज्वरोऽधुना ॥ ९१

तन्मे समिधमानीय शीतनं ज्वलयानलम् । नान्यथा मम शान्तिः स्यान्नयेयं न च यामिनीम् ॥ ९२

तच्छुत्वा तं स गोविन्दस्वामी तवेनाकुलः। तावत्कुतोऽधुना वह्निर्वसेति च समभ्यधात् ॥ ९३

नन्वयं निकटे तात दृश्यतेऽग्निज्वलन्नितः । भूयिष्ठेऽत्रैव तद्रत्वा किं नाङ्ग तपयाम्यहम् ॥ ९४

तस्मात्सकम्पं हस्ते मां गृहीत्वा प्रापय द्रुतम् । इत्युक्तस्तेन पुत्रेण पुनर्विप्रोऽपि सोऽब्रवीत् ॥ ९५

इमशानमेतदेषा च चिता ज्वलति तत्कथम् । गम्यतेऽत्र पिशाचादिभीषणे त्वं हि बाळकः ॥ ९६

एतच्छुत्वा पितुर्वाक्यं वत्सळस्य विहस्य सः। वीरो विजयदत्तस्तं सावष्टम्भमभाषत ॥ ९७

किं पिशाचादिभिस्तात वराकैः क्रियते मम । किमल्पसत्त्वः कोऽयस्मि तदशकं नयात्र माम् ॥ ९८

श्यामहाद्वदन्तं तं स पिता तत्र नीतवान् । सोऽभ्यङ्गं तापयन्बालश्चितामुपससर्प ताम् ॥ ९९

चलन्तीमनलज्वालधूमव्याकुलमूर्धजाम् । तृमांसग्राहिणीं साक्षादिव रक्षोधिदेवताम् ॥ १००

क्षणात्तत्र समाश्वस्य सोऽर्भकः पितरं च तम् । चितान्तर्दश्यते वृत्तं किमेतदिति पृष्टवान् ॥ १०१

तपालं मानुषस्यैतचितायां पुत्र दह्यते । इति तं प्रत्यवादीच सोऽपि पार्श्वस्थितः पिता ॥ १०२

तः स्वसाहसेनेव दीप्ताग्रेण निहत्य तम् । कपालं स्फोटयामास काष्ठेनैकेन सोऽर्भकः ॥ १०३

नोचैः प्रसृता तस्मान्मुखे तस्यापतद्वसा । श्मशानवह्निना नक्तंचरीसिद्धिरिवार्षिता ॥ १०४

दास्वादेन बालश्च संपन्नोऽभूत्स राक्षसः । ऊध्र्वकेशः शिखोत्खातखङ्गो दंष्ट्राविशङ्कटः ॥ १०५

आकृष्य च कपालं तद्भसां पीत्वा लिलेह सः। अस्थिलग्नानलज्वालालोलया निजजिह्वया ॥ १०६

तस्यक्तकपालः सन्पितरं निजमेव तम् । गोविन्दस्वामिनं हन्तुमुद्यतासिरियेष सः ॥ १०७

उपाळरस्फोट भो देव न हन्तव्यः पिता तव । इत एहीति तत्कालं श्मशानादुदभूद्वचः ॥ १०८

च्छुत्वा नाम लब्ध्वा च कपालस्फोट इत्यदः । स बदुः पितरं मुक्त्वा रक्षोभूतस्तिरोदधे ॥ १०९

त्पिता सोऽपि गोविन्दस्वामी हा पुत्र हा गुणिन् । हा हा विजयदत्तेति मुक्ताक्रन्दस्ततो ययौ ॥ ११०

त्य चण्डीगृहं तच्च प्रातः पत्न्यै सुताय च। ज्यायसेऽशोकदत्ताय यथावृत्तं शशंस सः ॥ १११

तस्ताभ्यां सहनभ्रविद्युदापातदरुणम् । तथा शोकानलावेशमाजगाम स तापसः ॥ ११२

था वाराणसीसंस्थो देवीसंदर्शनागतः । तत्रोपेत्य जनोऽयन्यो ययौ तस्समदुःखताम् ॥ ११३

वच देवीपूजार्थमागत्यैको महावणिक् । अपश्यदत्र गोविन्दस्वामिनं तं तथाविधम् ॥ ११४

मुद्रदत्तनामासाद्युपेत्याश्वास्य तं द्विजम् । तदैव स्वगृहं साधुर्नियाय सपरिच्छदम् ॥ ११५

नादिनोपचारेण तत्र चैनमुपाचरत् । निसग ठेष महतां यदपन्नानुकम्पनम् ॥ ११६

{ऽपि जग्राह गोविन्दस्वामी पत्या समं धृतिम् । महाव्रतिवचः श्रुस्वा जातास्थः सुत संगमे ॥ ११७

सः प्रभृति चैतस्यां वाराणास्यामुवास सः । अभ्यर्थितो महद्यस्य तस्यैव वणिजो गृहे ॥ ११८

त्रैवाधीतविद्योऽस्य स मुतः प्राप्तयौवनः। द्वितीयोऽशोकदत्ताख्यो बाहुयुद्धमशिक्षत ॥ ११९

मेण च ययौ तत्र प्रकर्ष स तथा यथा । अजीयत न केनापि प्रतिमल्लेन भूतले ॥ १२०

कदा देवयात्रायां तत्र मल्लसमागमे । आगादेको महामल्लः ख्यातिमान्दक्षिणापथात् ॥ १२१

मात्र निखिला मला राज्ञो वाराणसीपतेः । प्रतापमुकुटाख्यस्य पुरतोऽन्ये पराजिताः ॥ १२२

तः स राजा मल्लस्य युद्धे तस्य समादिशत् । आनय्याशोकदत्तं तं श्रुतं तस्माद्वणिग्वरात् ॥ १२३

ऽपि मल्लो भुजं हत्वा हस्तेनारभताहवम् । मलं चाशोकदत्तस्तु भुजं हत्वा न्यपातयत् ॥ १२४

स्तत्र महामल्लनिपातोस्थितशब्दया । युद्धभूम्यापि संतुष्य साधुवाद इवोदिते ॥ १२५

राजाशोकदत्तं 'तं तुष्टो रत्नैरपूरयत् । चकार चास्मनः पार्श्ववर्तिनं दृष्टविक्रमम् ॥ १२६