पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
पञ्चमः सर्गः ।

पशरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः॥

 तुषारसंघातनिपातशी[१]तलाः
  शशाङ्कभाभिः शिशि[२]रीकृताः पुनः।
 विपाण्डुतारागणजिह्म[३]भूषिता
  जनस्य सेव्या न भवन्ति रात्रयः॥४॥

 तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शीतलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशिरीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डुरवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ।।

 गृहीतताम्बूलविलेपनस्रजः
  सु[४]खासवामोदितवक्त्रपङ्कजाः ।
 प्रकामकालागुरुधूप[५]वासितं
  विशन्ति श[६]य्यागृहमुत्सुकाः[७] स्त्रियः ॥ ५॥

 गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं


  1. 'शीतला'.
  2. 'शिशिरीकृताः'.
  3. 'चारुभूषणाः'.
  4. 'सुरासवा; पुष्पासवा'
  5. 'वासिताम्'.
  6. 'शय्याम्'.
  7. 'उत्सुकस्त्रियः'.