पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
ऋतुसंहारे

मुखकमलं यासां तास्तथोक्ताः । उत्सुका उत्कण्ठिताः स्त्रियः प्रकाममत्यन्तं कालागुरोः कृष्णागुरोर्धूपेन वासितं शय्यागृहं शय्यामन्दिरं विशन्ति प्रविशन्तीत्यर्थः ॥

 कृतापराधान्व[१]हुशोऽपि तर्जिता-
  न्सवेपथून्साध्वसलुप्त[२]चेतसः।
 निरीक्ष्य भर्तॄन्सुरताभिलाषिणः
  स्त्रियोऽपराधान्समदा विस[३]स्मरुः॥ ६ ॥

 कृतापराधानिति ॥ समदा मदसहिताः स्त्रियः कामिन्यः कृतोऽपराधो यैस्तथोक्तानत एव बहुशो बहुवारमपि तर्जितान्वेपथुभिः कम्पैः सहिता युक्तास्तांस्तथोक्तान् । साध्वसं भयम् । 'साध्वसं भयम्' इत्यमरः । पूर्वकृतापराधमूलकं तेन लुप्तं विनष्टं चेतश्चित्तं येषां ते तथोक्तान्भर्तॄन्प्रियान्सुरताभिलाषिणः संभोगाभिलाषिणो निरीक्ष्य वीक्ष्य अपराधान्पूर्वकृतान्विसस्मरुरपराधस्मरणेन विप्रियंनोचुरित्यर्थः । वंशस्थवृत्तमेतत् । तल्लक्षणं तूक्तम् ॥

 प्रकामकामैर्यु[४]वभिः सनिर्दयं
  निशासुदी[५]र्घास्वभिरामिताश्चिरम् ।
 भ्र[६]मन्ति म[७]न्दं श्रमखेदि[८]तोरसः
  क्षपावसाने नवयौवनाः स्त्रियः॥७॥


  1. 'अभितर्जितान्'.
  2. 'मन्द'.
  3. 'न सस्मरुः'.
  4. 'युवभिः सुनिर्दयम्'.
  5. 'दीर्घास्वभिभाविता भृशम् गा़ढं दयितेश्चिरं दृढम्, ,।'
  6. 'भवन्ति; धमन्ति
  7. 'मन्द'.
  8. 'खेदितो रवः'.