पुटमेतत् सुपुष्टितम्
५९
पञ्चमः सर्गः ।
पशरदिन्दुवन्निर्मलं स्वच्छं हर्म्यतलं हर्म्यपृष्ठं प्रासादतलं जनस्य चित्तं न रमयति । तथा सान्द्रेण घनेन तुषारेण हिमेन शीतलाः शिशिरा वायवः पवना अपि जनस्य चित्तं न रमयन्तीत्यर्थः॥
तुषारेति ॥ तुषारसंघातस्य हिमसमूहस्य निपातेन शीतलाः पुनः शशाङ्कस्य चन्द्रस्य भाः कान्तयस्ताभिः शिशिरीकृताः । एतेन शैत्याधिक्यं सूचितम् । विपाण्डुना पाण्डुरवर्णेन तारागणेन नक्षत्रसमूहेन जिह्मं वक्रं यथा भवति तथा भूषिता शोभिता रात्रयः शर्वर्यो जनस्य लोकस्य सेव्याः सेवितुमुपभोक्तुं योग्या न भवन्तीत्यर्थः ।।
गृहीतेति ॥ गृहीतास्ताम्बूलं च विलेपनं च कस्तूर्यादि स्रजः कुसुममालाश्च याभिस्तास्तथोक्ताः । सुखयतीति सुखः सुखकरो य आसवो मधु तेनामोदितं सुगन्धितं वक्त्रपङ्कजं