पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः

 सुतन्त्रिगीतं मदनस्य दीपनं
  शुचौ निशीथेऽनुभवन्ति कामिनः॥३॥

 सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्योच्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमुद्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे' इत्यमरः । अनुभवन्त्याखादयन्तीत्यर्थः । एतेनापि ग्रीप्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥

 नितम्बबिम्बैः स1दुकूलमेखलैः
  स्तनैः सहाराभरणैः सचन्दनैः।
 शिरोरुहैः स्नानकषायवासितैः
  स्त्रियो निदाघं शमयन्ति कामिनाम् ॥४॥

नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मेखला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः कटिपश्चाद्भागैः । ‘पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हाराआभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दनलिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धिद्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥

 नितान्तलाक्षार2सरागरञ्जितै-
  र्नितम्बिनीनां चरणैः सनूपुरैः।

१. 'सुदुकूल.' २. 'लोहितैः.'