पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ऋतुसंहारे

स्पृहणीयोवाञ्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन्स तथोक्तः। 'हिमांशुश्चन्द्रमाश्चन्द्रः' इत्यमरः । सदा निरन्तरमवगाहेन निमज्जनपूर्वकस्नानैः क्षतः क्षीणो वारिसंचयो जलसमूहो यस्मिन्स तथोक्तः । दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः । दिवसे सूर्यसत्वादौष्ण्यजनितमाकुलत्वं चन्द्रोदयादिना च शीतलत्वात्तस्य रम्यत्वम् । अभि समन्तादुपशान्तो मन्मथः कंदर्पो यस्मिन्स तथोक्तः। 'वसन्ते द्विगुणः कामः' इति वसन्तापगमे कामोपशान्तिः। अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः हे प्रिये । वंशस्थवृत्तमेतत्- 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ।।

 निशाः शशाङ्कक्षतनीलराजयः
  क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।
 मणिप्रकाराः सरसं च चन्दनं
  शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥२॥

 निशा इति ॥ हे प्रिये, क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षता दूरीकृता नीलराजयस्तमःपङ्कयो यासां तास्तथोक्ता निशा रात्रयः । 'निशा निशीथिनी रात्रिः' इत्यमरः । क्वचिद्विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहम् । क्वचिन्मणिप्रकारा मणिविशेषाश्चन्द्रकान्तादयः । क्वचित्सरसं सान्द्रं चन्दनं च शुचौ ग्रीष्मकाले जनस्य लोकस्य सेव्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः ।।

 सुवासितं हर्म्यतलं मनोहरं
  प्रियामुखोच्छ्वासविकम्पितं मधु ।

१. 'विकल्पितम्.'