पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ऋतुसंहारे

 पदे पदे हंसरुतानुकारिभि-
  र्जनस्य चित्तं क्रियते समन्मथम् ॥५॥

 नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण रञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जनस्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् । मदनो मन्मथो मारः' इत्यमरः । क्रियत इत्यर्थः ।।

 पयोधराश्चन्दनपङ्कच1र्चिता-
  स्तुषारगौरार्पितहारशेखराः।
 नितम्बदेशा2श्च सहेममेखलाः
  प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥

 पयोधरा इति ॥ चन्दनस्य पङ्केन द्रवेण चर्चिता लिप्ताः । तुषारवद्गौराः शुभ्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तथोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरसनासहिताः। 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः । नितम्बदेशाः श्रोणीबन्धाश्च कस्य मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वते प्रकर्षेण न कुर्वन्ति । अपि तु सर्वस्यापीत्यर्थः ।।

 समुद्गतस्वेदसिताङ्गसंधयो
  विमुच्य वासांसि गुरूणि सांप्रतम् ।
 स्तनेषु तन्वंशुकमुन्नतस्तना
  निवेशयन्ति प्रमदाः सयौवनाः॥७॥

१. 'शीतलाः.' २. "बिम्बाश्चलहेम'. ३. 'समुद्यत.'