पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
तृतीयः सर्गः ।

श्रेष्ठास्तांस्तथोक्तान्केशान्कुन्तलान् । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः। नवमालतीभिर्नवमालतीकु- सुमैरापूरयन्ति । प्रवराणि श्रेष्ठानि काञ्चनकुड्मलानि स्वर्णताटङ्कादीनि येषु तेषु तथोक्तेषु कर्णेषु श्रवणेषु । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । विविधानि विचित्राणि नीलोत्पलानीन्दीवराणि निवेशयन्ति । स्थापयन्ति । अवलम्बयन्तीत्यर्थः ॥

 हारैः सचन्दनरसैः स्तनमण्डलानि
  श्रोणीतटं सुविपुलं रसनाकलापैः ।
 पादाम्बुजानि क[१]लनूपुरशेखरैश्च
  नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥

 हारैरिति ॥ प्रहृष्टमनसः प्रहर्षितचेतसो नार्यः स्त्रियोऽद्य सचन्दनरसैश्चन्दनद्रवसहिततैर्हारैः स्तनमण्डलानि कुचमण्डलानि । रसनाकलापैः काञ्चीगुणैः सुविपुलं महच्छ्रोणीतटं कटिपश्चाद्भागम् । कलनूपुरशेखरैरुत्तममञ्जीरैः पादाम्बुजानि चरणकमलानि च विभूषयन्तीत्यर्थः ॥

 स्फुटकुमुदचितानां राजहंसस्थि[२]तानां
  मरकतमणिभासा वारिणा भू[३]षितानाम् ।
 श्रियमतिशयरूपां व्योम तोयाशयानां
  वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥

 स्फुटेति ॥ विगता मेघा यस्मात्तं तथोक्तं चन्द्रश्च तारा नक्षत्राणि च ताभिरवकीर्णं व्याप्तं व्योमाकाशं स्फुटैर्विकसितैः

कुमुदैः कैरवैश्चिता व्याप्तास्तेषां तथोक्तानाम् । राज-


  1. 'वर.
  2. 'आश्रितानाम्'.
  3. 'आपूरितानाम्.'