पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
ऋतुसंहारे

न्दरा भ्रूविभ्रमाश्च तनुभिः सूक्ष्मैस्तरंगैर्वीचिभिर्जिता इति लिङ्गवचनविपरिणामेनान्वयः ॥

 श्यामा लताः कुसुमभारनतप्रवालाः
  स्त्रीणां हरन्ति धृ[१]तभूषणबाहुकान्तिम् ।
 [२]न्तावभासविशदस्मितचन्द्र[३]कान्तिं
  [४]ङ्केलिपुष्परु[५]चिरा न[६]वमालती च ॥ १८ ॥

 श्यामा इति ॥ कुसुमानां पुष्पाणां भारेण नता नम्राः प्रवालाः पल्लवा यासां तास्तथोक्ताः श्यामाहरिद्वर्णास्तत्र मध्ये याश्च लता व्रतत्यः । 'वल्ली तु व्रततिर्लता' इत्यमरः । स्त्रीणां नारीणां धृतानि भूषणानि यैस्तेषां बाहूनां कान्ति शोभां हरन्त्यपनयन्ति । कङ्केलिपुष्परुचिरा नवमालती नूतनमालिका च दन्तानां रदनानामवभासेन प्रभया विशदं निर्मलं स्मितमेव चन्द्रकान्तिम् । 'रदना दशना दन्ताः' इत्यमरः । हरतीति विभक्तिविपरिणामेनान्वयः ॥

 केशान्नितान्तघननीलविकुञ्चिताग्रा-
  नापूरयन्ति वनिता नवमालतीभिः।
 कर्णेषु च प्र[७]वरकाञ्चनकु[८]ड्मलेषु
  नीलोत्पलानि विविधा[९]नि निवेश[१०]यन्ति॥१९॥

 केशानिति ॥ वनिता अबला नितान्तमत्यन्तं घनाः

संकीर्णा नीलाः कृष्णवर्णा विकुञ्चिताः कुटिला अत एवाग्राः


  1. 'भृत.'
  2. 'दन्ते विभास.'
  3. 'वस्त्रकान्तिम्.
  4. 'बन्धूक.'
  5. 'रचिता.'
  6. 'नवमालिका च'
  7. 'प्रचुर'
  8. 'कुण्डलेषु'.
  9. 'विकचानि.
  10. 'निवेशयन्ते.