पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
तृतीयः सर्गः ।

दृश्यमानमिति शेषः । बलनामकं दैत्यं भिनत्ति विदारयति । हन्तीति यावत् । तस्य बलभिदो बलारातेरिन्द्रस्य धनुः कार्मुकं नष्टं गतम् । न दृश्यत इत्यर्थः । वियत आकाशस्य पताका सौदामिनी तडिन्न स्फुरति न दीव्यति । बलाका बिसकण्ठिकाः । 'बलाका बिसकण्ठिका' इत्यमरः । पक्षाणां पत्राणां पवनैर्वातैः । 'गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्' इत्यमरः । नमो न धुन्वन्ति न कम्पयन्ति । उन्नतमूर्ध्वं मुखं वदनं मेघदिदृक्षया येषां ते तथोक्ता मयूरा बर्हिणो गगनमाकाशं न पश्यन्ति नावलोकयन्तीत्यर्थः॥

 नृत्यप्रयोगरहिताञ्छिखिनो विहाय
  हंसानुपैति मदनो मधुरप्रगीतान् ।
 मु1क्त्वा कदम्बकुटजार्जुनसर्जनीपा-
  न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥

 नृत्येति ॥ मदनः कंदर्पो नृत्यप्रयोगेन नर्तनप्रयोगेन रहिताञ्शिखिनो बर्हिणो विहाय त्यक्त्वा मधुरं प्रगीतं गानं येषां तांस्तथोक्तान्हंसानुपैति प्राप्नोति । कुसुमानां पुष्पाणामुद्गम उत्पत्तिस्तस्य श्रीः शोभा कदम्बो धूलिकदम्बः, कुटजः शक्रनामको वृक्षविशेषः, अर्जुनः ककुभवृक्षः, सर्जः शालवृक्षः, नीपः पूर्वोक्तकदम्बभिन्नकदम्बस्तान् । 'अथ कुटजः शक्रः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । मुक्त्वा त्यक्त्वा सप्तच्छदान्सप्तपर्णवृक्षानुपगता प्राप्तेत्यर्थः ॥

१'त्यक्त्वा'.