पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
ऋतुसंहारे

 शेफालिकाकुसुमग1न्धमनोहराणि
  स्वस्थस्थिताण्डजकु2लप्रतिनादितानि ।
 पर्यन्तसंस्थितमृगीनयनोत्पलानि
  प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥

 शेफालिकेति ॥ शेफालिका सुवहा तस्याः कुसुमानां पुष्पाणां गन्धेन मनोहराणि सुन्दराणि । 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा' इत्यमरः। स्वस्थमनुद्वेगं तीव्रतराणि तापदावानलादिदुःखाभावाद्यथा भवति तथा स्थितानामुपविष्टानामण्डजानां पक्षिणां कोकिलादीनां कुलैः समुदायैः प्रतिनादितानि प्रतिध्वनितानि । पर्यन्ते संस्थितानां प्रान्तस्थितानां मृगीणां हरिणीनां नयनानि लोचनान्येवोत्पलानि कुवलयानि येषु तानि तथोक्तान्युपवनान्युद्यानानि पुंसां मनांसि प्रोत्कण्ठयन्ति समुत्कण्ठितानि कुर्वन्तीत्यर्थः ।।

 कह्लारपद्मकु3मुदानि मु4हुर्विधुन्वं-
  स्तत्संगमादधिकशीतलतामु5पेतः ।
 उ6त्कण्ठयत्यतितरां पवनः प्रभाते
  पत्रान्तलग्न7तुहिनाम्बुविधूयमानः ॥१५॥

 कह्लारेति ॥ कह्लारपद्मकुमुदानि कह्लारं सौगन्धिकम् , पद्मं नलिनम्, कुमुदं कैरवं तानि । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । 'वा पुंसि पद्मं नलिनम्' इत्यमरः । 'सिते कुमुदकैरवे' इत्यमरः । मुहुर्वारंवारं विधुन्वन् । तेषां संगमा-

१ 'राग.' २ 'गण.' ३ 'कुसुमानि.' ४ 'मुदा.' ५ 'उपेत्य.' ६ 'सोत्कां करोति वनिताम्.' ७ 'तुहिनानि हरंस्तरूणाम्.'