पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
द्वितीयः सर्गः ।

र्मयूरैः समाकुला व्याकुला भूधराः समुत्सुकत्वम् । चित्तस्येति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥

 कदम्बसर्जार्जुनके1तकीवनं
  वि2कम्पयंस्तत्कुसुमाधिवासितः।
 ससीकराम्भोधरसङ्गशीतलः
  समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥

 कदम्बेति ॥ कदम्बो नीपः, सर्जोऽश्वकर्णः, अर्जुनः ककुभः, केतक्यश्च तासां वनं समुदायम् । 'नीपप्रियककदम्बास्तु हरिप्रियः' इत्यमरः । 'साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः' इत्यमरः । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुप्पैरधिवासितः संजाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥

 शिरोरुहैः श्रोणितटावलम्विभिः
  कृतावतंसैः कुसुमैः सुगन्धिभिः।
 स्तनैः स4हारैर्वदनैः ससीधुभिः
  स्त्रियो रतिं संजनयन्ति कामिनाम् ॥१८॥

 शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चाद्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः। 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । कृतावतंसैः सुग-

१ 'नीपकेतकीः'. २ 'प्रकम्पयन्'. ३ 'अधिवासनः'. ४ 'सुपीनैः'.