पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
ऋतुसंहारे

न्धिभिः कुसुमैः पुष्पैः । 'पुष्पं प्रसूनं कुसुमम्' इत्यमरः । सहारैः कुसुममालासहितैः स्तनैः कुचैः । ससीधुभिर्मधुसहितैर्वदनैराननैः कामिनां विलासिनां रतिं प्रीतिं संजनयन्ति सम्यक्प्रकारेणोत्पादयन्तीत्यर्थः ॥

 त1डिल्लताशक्रधनुर्विभूषिताः
  पयोधरास्तोयभरावलम्बिनः ।
 स्त्रियश्च काञ्चीमणि2कुण्डलोज्ज्वला
  हरन्ति चेतो युगपत्प्रवासिनाम् ॥ १९ ॥

 तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनुरिन्द्रायुधं च ताभ्यां विभूषिताः शोभिताः । 'इन्द्रायुधं शक्रधनुः' इत्यमरः । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा मेघाः । काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नखचितताटङ्कानि च तैरुज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां प्रोषितानांचेतोऽन्तःकरणं युगपत्सममेव हरन्त्यपरहन्तीत्यर्थः । स्त्रियश्चात्र परकीयाः। प्रवासिनां स्वकीयासांनिध्याभावात् ।।

 मालाः कदम्बनवकेसरकेतकीभि-
  रायोजिंताः शिरसि बिभ्रति योषितोऽद्य ।
 कर्णान्तरेषु ककुभद्रुमम3ञ्जरीभि-
  रि4च्छानुकूलरचितानवतंसकांश्च ॥ २० ॥

 माला इति ॥ योषितः स्त्रियोऽद्य कदम्बानि कदम्बकुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि, केतक्यश्च ताभिरायोजिता ग्रथिताः । 'अथ केसरे । बकुलम्'

१'तडिल्लताः'.२ 'मेखलोज्ज्वलाः'. ३ 'मञ्जरीणाम्'. ४ श्रोत्रानुकूल'.