पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
ऋतुसंहारे

 वनद्विपानामिति ॥ नवाः सद्यःसंभृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः । कृत्वा । मदान्वितानाम् । अपवारणगर्जनशङ्कयेति भावः । अतएव मुहुर्मुहुर्वारंवारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् । 'द्विपः । मतंगजो गजो नागः' इत्यमरः । विमलानि निर्मलानि यान्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः । 'स्यादुत्पलं कुवलयम्' इत्यमरः । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथैर्भ्रमरसमुदायसहितैर्मदवारिभिर्दानोद्रेकैश्चिताः । व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ।।

 सितो1त्पलाभाम्बुदचुम्बितोपलाः
  स2माचिताः प्रस्रवणैः समन्त3तः ।
 प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
  समुत्सुकत्वं जनयन्ति भूधराः॥ १६ ॥

 सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा जलदास्तैश्चुम्बिता उपलाः पाषाणा येषां ते तथोक्ताः । 'पाषाणप्रस्तरग्रावोपलाश्मानः' इत्यमरः । समन्तत इतस्ततः प्रस्रवणैर्निर्झरैः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं यैस्तथोक्तैः । 'लास्यं नृत्यं च नर्तने' इत्यमरः । शिखिभि- १ 'सतोयनमाम्बुद'; 'नीलोत्पलाभाम्बुद'. २ 'सुभूषिताः'.

३ 'अपङ्किलैः'.