पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
द्वितीयः सर्गः ।

मनं प्रसर्पितमितस्ततः संचरणशीलं ससाध्वसैः सभयैर्भेककुलैर्मण्डूकसमुदायैः । 'भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः । निरीक्षितं विलोकितं नवोदकं नूतनजलं निम्नस्य गम्भीरस्य देशस्याभिमुखम् । 'निम्नं गभीरं गम्भीरम्' इत्यमरः । प्रयाति गच्छतीत्यर्थः ॥

 वि1पत्रपुष्पां नलिनीं स2मुत्सुका
  विहाय भृङ्गाः श्रुतिहारिनिस्वनाः।
 पतन्ति मूढाः शिखिनां प्रनृ3त्यतां
  कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥

 विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी। मनआह्लादकर इति यावत् । निस्वनः शब्दो येषां ते तथोक्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः' इत्यमरः । विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्याः सा तां तथोक्तां नलिनीं विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वतां शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमेणेति भावः । पतन्ति निपतन्तीत्यर्थः ।।

 वनद्विपानां नव4वारिदस्वनै-
  र्मदान्वितानां ध्व5नतां मुहुर्मुहुः ।
 कपोलदेशा विमलोत्पलप्रभाः
  सभृङ्गयूथैर्मदवारिभिश्चि6ताः॥ १५ ॥

१ 'प्रफुल्लपत्राम्'; 'विपन्नपुष्पाम्'. २ 'समुत्सुकाम्'. ३ 'निवृत्ताः'

४ 'तोयद'. ५. 'खनताम्'. ६. 'श्रिताः'.