पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
ऋतुसंहारे

वधूः' इत्यमरः । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणादिर्यैस्तांस्तथोक्तानपि प्रियाञ्शयने निरन्तरं निरवकाशं यथा भवति तथा परिष्वजन्त आलिङ्गन्त इत्यर्थः ॥

 विलोचनेन्दीवरवारिबिन्दुभि-
  र्निषिक्तबिम्बाधरचारुपल्लवाः ।
 निरस्तमाल्याभरणानुलेपनाः
  स्थिता निराशाः प्रमदाःप्रवासिनाम् ॥१२॥

 विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलोत्पलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थिता आसन्नित्यर्थः॥

 वि2पाण्डुरं कीटरजस्तृणान्वितं
  भुजंगवद्वक्रगतिप्रसर्पितम् ।
 ससाध्वसैर्भेककुलैर्निरीक्षि3तं
  प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥

 विपाण्डुरमिति ॥ विपाण्डुरं पाण्डुरवर्णं कीटांश्च रजांसि च तृणानि च तैरन्वितं युक्तं भुजंगवत्सर्पवद्वक्रगतिस्तिर्यग्ग-

१ 'कृताः'. २ 'विपाण्डवम्'. ३ 'विलोकितम्'.