पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
उत्तररामचरिते

 वासन्ती-देव, समाश्वसिहि समाश्वसिहि ।

 सीता--अजउत्त, मं मन्दभाइणि उद्दिसिभ सअलजीवलोअमङ्गलिअजम्मलाहस्स दे वारं वारं संसइदजीविअदालणो दशापरिणामो ति हा हदम्हि । (इति मूर्च्छति ।)

 तमसा-वत्से, समाश्वसिहि समाश्वसिहि । पुनस्ते पाणिस्पर्शी रामभद्स्य जीवनोपायः ।

 वासन्ती-कथमद्यापि नोच्छसिति । हा प्रियसखि सीते, कासि । संभावयात्मनो जीवितेश्वरम् ।

(सीता ससंभ्रममुपसृत्य हृदि ललाटे च स्पृशति ।)

 वासन्ती--दिष्टया प्रत्यापन्नचेतनो रामभद्रः ।

 रामः

  आलिम्पन्नमृतमयैरिव प्रलेपै-
   रन्तर्वा बहिरपि वा शरीरधातून् ।
  संस्पर्शः पुनरपि जीवयन्नकस्मा-
   दानन्दादपरमिवादधाति मोहम् ॥ ३९ ॥

(सानन्दमुन्मीलिताक्ष एव ॥ सखि वासन्ति, दिष्टया वर्धसे |


 १. आर्यपुत्र, मां मन्दागिनीभुद्दिश्य सकलजीवलोकमाङ्गलिकजन्मलाभस्य ते वारं वारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि ।


पुनरपि मूढो मूञ्छितः ॥ वारं वार पदे पदे संशयितजीवितः संशयित संशयविषयं जीवितं यस्मिस्तथोक्तः।मरणपर्यवसायोति भावः । अत एव दारुणः क्रूरः दशापरिणाम: दशापरिपाकः ॥ हा प्रियसखीति । जीवितेश्वर प्राणनाथ राम संभावय संभावितं कुरु । रामासंभवं परिहरस्वेत्यर्थः॥ हृदि ललाटे च स्पृशति । इदंच लोकेऽनुभवसिछम् ॥ दिष्टयेति । दिष्टयेत्यानन्दे । प्रत्यापन्ना पुनरागता चेतमा प्रज्ञा यस्य स तथोक्तः ॥ आलिम्पन्निति । अमृतमथैः अमृतखरूपैः । चिन्मयमित्यादाविव स्वार्थिको मयालयः । प्रकृष्टो लेपः यैस्ते । लेपसाधनद्रश्चैः अन्तर्वा बहिरपि वा अन्तर्वहिश्च शरीरै धातूश्च । नाडीश्च अन्तनांडी: बहिः शरीरमिति विवेकः । आलिम्पन्निव । सर्वाङ्गीण: लेपनकर्तेति संभावनीचः । जीवयन प्राणप्रतिष्टाहेतुभूतः अकस्मात् निर्हेतुकः संस्पर्शः पुनरपि आनन्दात् आनन्दमुत्पाद्यापर मोहं दुःखहेतुकपूर्वमूर्छातिरिक्त मूर्छाम, आनन्दादिति ल्यब्लोपे पञ्चमी । यद्धा आनन्दादिति हेतौ पञ्चमी । तथा च दुःखजन्यपूर्वमूर्छातिरिक्ताम् । आनन्दहेतुका मूर्छामादधतीय उत्पादयतीव । अन्ये तु परोन भवतीत्वपरः । अनन्य इत्यर्थः । आनन्दादपर मोहं आनन्दात्मकमूच्छामित्याहुः ॥३९॥