पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
तृतीयोऽङ्कः ।

 सीता--दालुणासि वासन्ति, दालुणासि । जा एदेहिं हिअअमम्मुग्घाडिअसल्लसंघट्टनेहिं पुणोपुणोवि मं मन्दभाइणि अजउत्तं असुमरावेसि ।

 रामः-- अयि चण्डि जानकि, इतस्ततो दृश्यसे नानुकम्पसे ।

  हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः
   शून्यं मन्ये जगदविरलज्वालमन्तवलामि ।
  सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
   विप्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥३८॥

(इति मूर्च्छति ।)

 सीता-हैद्धी हद्धी । पुणोवि मुद्धो अजउत्तो।


 १. दारुणासि वासन्ति, दारुणासि । या एतैर्हृदयमर्मोद्घाटितशल्यसंघट्टनैः पुनःपुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि ।

 २. हा विक् हा धिक् । पुनरपि मूढ आर्यपुत्रः ।


निभः पद्मक्रोशसदृशः मुग्धः सुन्दरः प्रणामावलिः । मस्तकन्यस्तकरसंपुटादिप्रणामाङ्गभूताजलिरित्यर्थः । अथवा 'नामयत्यपि वा देव प्रतीभावयति ध्रुवम् । प्रवीभवति नीचे हि परो नैच्य विलोकयन् ॥ अतो वा नम उक्तीद यत्तं नामयति खयम् । वाचा नम इति प्रोच्य वपुषा मनसा च यत् ॥' इति भगवच्छात्रोक्तरीत्या प्रणामः कोपोद्धतरामहृदयनमनहेतुभूतोऽझलिरित्यथैः । उक्तं च–'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इति । अत एव रामायणे-'कृतापराघस्य हि वे नान्यत्तश्याम्यह क्षमम् । अन्तरेणाञ्जलि बद्धा लक्ष्मणस्य प्रसादनात् ॥' इति बद्धः घटितः ॥ ३७॥ दारुणेति । हृदयमोंदाटितशल्यस्य हृदयमर्मणि स्थितकीलामस्य संघटनैः संचलनैः एतैः पुरावृत्तान्त कथनैः आर्यपुत्रं मां च सरयसि । मद्विषयकस्मृति आर्यपुत्रस्य जनयसीत्यर्थः । चा स्मरबसि साल दारुणेति पूर्वेणान्वयः ॥ चण्डि कटिने जानकि जनकपुत्रि, नानुकम्पसे दया न करोषि । जानकीत्युक्त्या परमदयालुजनकराजपुत्र्यास्तवेद निर्दयल नोचितमिति व्यज्यते । हा हेति । हाहाशब्दो दुःखातिशयद्योतकः । हृदयं स्फुटति दलति । देहबन्धः शरीरावयवाना संधिः । जातावेकखम् । ध्वंसते विशीर्णो भवति । जगत् लोक अन्य असत्कल्पम् । अभावप्रतियोगीति यावत् । मन्ये जानामि । अविरलाः अविच्छिन्नाः ज्वाला: यस्मिन् कर्मणि तत्तथोक्तम् । अन्तः शरीरान्तः ज्वलामि । काष्टवत् ज्वलामीति यावत् । विधुरः ज्ञानादिशुन्यः सीदन् विशीभवन् अन्तरात्मा अन्धे अन्धयति लोकानिवन्धं तस्मिन् तमति मजति अवगादं भवति । मोह मूळ विष्वक् परितः स्थगयति संछादयति । कथं करोमि कि करोमि । किं हृदयस्फोटादि निवारयामि, उत खदागमनार्थ लोकाननुनयामि, अथवा तानिगृह्य खामानेष्यामि वेति भावः ॥३८॥