पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
उत्तररामचरिते

  हित्वा भित्वा प्रसरति बलात्कोऽपि चेतोविकार-
   स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३ ॥

 सीता--अजउत्तस्स एदिणा दुव्वारदारुणारम्भेण दुःखसंजोएण परिमुसिअणिअदुःखं पमुक्कजीविरं मे हिअ फुडइ ।

 वासन्ती-(खगतम् ।) कष्टमत्यासत्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम् ।) चिरपरिचितामिदानी जनस्थानाभोगानवलोकनेन मान- यतु देवः ।

 रामः—एवमस्तु । ( इत्युत्थाय परिकामति ।)

 सीता-संदीवण एव्व दुःखस्स पिअसहीए विणोदणोवाओ त्ति तकेमि।

 वासन्ती-देव देव,

  अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
   सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते ।
  आयान्त्या परिदुर्मनायितमिव त्यां वीक्ष्य बद्धस्तया
   कातर्यादरविन्दकुमलनिभो मुग्धः प्रणामाञ्जलिः ।। ३७ ॥


 १. आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोमेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे हृदयं स्फुटति ।

 २. संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि ।


उज्जम्भणमभिवृद्धि तस्य स्तम्भनं प्रतिहतिः तदर्थम् । 'करणस्तम्भनार्थम्' इति पाठे वेलोलोलं बेलातिकान्तं क्षुमित क्षोभः यस्य तथोक्तस्य करणस्य । हृदयादेरित्यर्थः । कथमपि प्रयासेन समाधीयते उत्पाद्यते । चेतोविकारः संभ्रमातिशयः । ओधः दीर्घप्रवाहः ॥३६॥ आर्यपुत्रस्येति । दुर्वारः दुनिवर्सः दारुणानां करमूर्छा संतापादीनां आरम्भः उपादानं येनेति विग्रहः । परिमुषितं निजदुःख खीयदु.खं यस्येति यथोक्तम् । स्फुटति दलति । आक्षिपामि । अन्यत्र नयामीत्यर्थः ॥ संदीपन इति । विनोदनोपायः चिरपरिचितजनस्थानाभोगावलोकनरूपः दुःखस्य संदीपन एवं उद्दीपनहेतुरेवेति तर्कचाम्म जानामि ॥ अस्मिन्निति । अस्मिन्नेव लतागृहे त्वं अभवः स्थितवान् । तन्मार्गे सीताया आगमनमार्गे दर्त ईक्षणं नेलं येन तथोक्त: । हसैः कृतं उत्पादित कौतुकं हर्षः यस्यास्तथोक्का । गोदावरीसैकते पुलिनोचये । आयान्त्या आगच्छन्त्या तया सीतया पारदुर्मनायितमिव परिकुपितमनस्कमिव स्थितम् । नतु वस्तुतः कुपितहदित्यर्थः । त्वां वीक्ष्य कातर्यात् अपराधपतिसंधानजनितसाध्वसात् अरविन्दकुबल-