पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
तृतीयोऽङ्कः ।

 वासन्ती-कथमिव ।

 राम:-सखि, किमन्यत् । पुनरपि प्राप्ता जानकी ।

 वासन्ती---अयि देव रामभद्र, क सा ।

 रामः—(स्पर्शसुखमभिनीय ।) पश्य नन्विये पुरत एव ।

 वासन्ती-अयि देव रामभद्र, किमिति मर्मच्छेददारुणैरतिप्रलापैः प्रियसखीविपत्तिदुःखदग्धामपि मां पुनःपुनर्मन्दभाग्यां दहसि ।

 सीता--ओसरिदं इच्छम्मि । एसो उण चिरप्पणअसंभारसोम्मसीअलेण अज्जउत्तप्फरिसेण दीहदारुणंवि झत्ति संदावं उल्लाहअन्तेण वज्जलेहोवणद्धो विअ परिअद्धवादारो आसंजिओ विअ मे अग्गहत्थो ।

 राम:--सखि, कुतः प्रलापाः।

  गृहीतो यः पूर्वं परिणयविधौ कंकणधरः
   सुधासूतेः पादैरमृतशिशिरैः परिचितः ।

 सीता-अजउत्त, सो एव दाणिसि तुमम् ।


 १. अपसर्तुमिच्छामि । एष पुनः चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्रस्पर्शन दीर्घदारुणमपि झटिति संतापं उल्लाघयता वज्रलेपोपनद्धः इव पर्यस्तव्यापार आसजित इव मेऽग्रहस्तः ।

 २. आर्यपुत्र, स एवेदानीमसि त्वम् ।


सानन्दभुन्मीलिताक्ष एव उन्मीलिते लचमुकुसीमावे अक्षिणी यस्य तथोकः। अत्र हदि ललाटे चेत्यादिना इष्टार्थोपायानुसरणामकाक्षेप उक्तः ॥ अथीति । मर्मच्छेदबत् हृदयाघवयवक्षतिवत् दारणैः दुःसहैः प्रलापैः अनर्थकवचोभिः दहसीत्यत्रान्वयः । प्रियसख्याः सीतायाः विपत्त्या विपदा यहःख तेन दग्यां भस्मीक्रियमाणाम् ॥ अपसर्तुमिति । चिरस्य बहुम्सलरूढस्य प्रणयस्य स्नेहस्य संभारेण अतिशयेन हेतुना सौम्यः आहादकरः शीतलः शीतश्च तथाविधन । दीर्घश्चासौ दारुणवेति विग्रहः । राजकुब्जादिवत् समासः । तथाविध संतापं झटिति उल्लाघयता लघुकुर्वता आर्यपुत्रस्पर्शन वालेपेन उपनद्ध इव घटित इद पर्यस्तव्यापारः । निष्पन्द इत्यर्थः। मे अग्रहस्तः आसजित इव लभ इव । प्रलापैरिति वालन्तीवाश्यस्योत्तरमाह-'सखि, कुतः प्रलापा.' इति । गृहीत इति । यः परिणयविधी विवाहविधौ ककणधर: गृहीतः यः करः सुधाया अमृतस्य सूतित्यत्तिः यस्मात्तस्य चन्द्रस्य अमृतशिशिरैः सुधाशीतलैः पादैः किरणैः परिचितः संश्लिष्टः । उक्त विशेषणसाम्यादाह--'आर्यपुत्र, स एवेदानी त्वमसि' इति । यः करः कहणधरी गृहीतः यः सुधासूतेः पादैः परिचितः