पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
तृतीयोऽङ्कः ।

 सीता- भअवदि तमसे, ओसरम्ह दाव । म पेक्खिा अणभणुग्णादेण संणिहाणेण राआ अहि कुप्पिस्सदि ।

 तमसा- अयि वत्से, भागीरथीप्रसादाद्वनदेवतानामग्यदृश्यासि संवृत्ता।

 सीता-अस्थि खु एदम्।

 राम: हा प्रिये जानकि ।

 सीता--(ससाध्वसगद्गदम् ।) अजउत्त, असरिस क्खु एवं इमस्स बुत्तन्दस्स । (सास्त्रम् ।) भअवदि, किंति वजमई जम्मन्तरेसु वि पुणो बि असंभाविअदुल्लहदसणस्स में एब मन्दभाइणि उद्दिसिअ एवं वच्छलस्स एवंवादिणो अज्जउत्तस्स उवरि णिरणुक्कोसा भविस्सम् । अहं एक एदस्स हिअभं जाणामि, मह एसो।

 रामः-(सर्वतोऽवलोक्य सनिवेदम् ।) हा, न किंचिदन्न ।

 सीता- भैअवदि, णिकारणपरिच्चाइणो वि एदस्स दसणेण एवंविघेण कीलिसी मे हिअआवत्था ।


 १. भगवति तमसे, अपसराव तावत् । मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिक कोषिष्यति ।

 २. अस्ति खल्वेतत् ।

 ३. आर्यपुत्र, असइशं खल्वेतदस्य वृत्तान्तस । भगवति, किमिति वज्रभयी जन्मान्तरेष्वपि पुनरप्यसंभावितदुर्लभदर्शनस्य मामेव मन्दभाग्यामुद्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रसोपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्स हृदयं जानामि, ममैषः।

 ४. भगवति, निष्कारणपरित्यागिनोऽप्येतस्य दर्शनेनैवंविधेन कीदृशी में । हृदयावस्था।


अनभ्यनुज्ञातेन अननुमतेन । संनिभानेन समीपस्थित्या ॥ आर्यपुत्रेति । एतत् प्रियेत्यामन्त्रणम् । अस्य वृत्तान्तस्य । परित्यागरूपस्येलर्थः । वज्रमची अत्यन्तकाठिन्ययुक्ता । मन्दभाग्यां मामुद्दिश्य वत्सलस्य निर्दोषत्वनिश्चयपूर्वक मयि प्रीतिमतः निरनुकोशा निर्दया । अनुक्रोशपदेन रामदशामिमां दृष्ट्वा मुक्तकण्ठं मया रोदितव्यम् । तत् किमेव कठिना भवामीति व्यज्यते । अनुक्रोशति मुक्तकण्ठं रोदित्यनेनेति अनुक्रोशः' इत्यमरव्याख्या ॥ कीदशी मे हृदयावस्था । आर्यपुत्र, परित्रायख मम पुत्रकमित्यारभ्य