(ततः प्रविशति भूम्यां निपतितः सास्त्रया सीतया स्पृश्यमानः साहादोच्छवासो रामः।)
सीता- (किंचित्सद्दर्षम् ।) जाणे उण पञ्चाअदं विअ जीवि तेल्लोकस्स ।
रामः- हन्त भोः, किमेतत् ।
आश्च्योतनं तु हरिचन्दनपल्लवानां
निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
आतप्तजीवितपुनः परितर्पणोऽयं
संजीवनौषधिरसो हृदि नु असक्तः ॥ ११ ॥
अपि च ।
स्पर्शः पुरा परिचितो नियतं स एवं
संजीवनश्च मनसः परितोषणश्च ।
संतापजां सपदि यः परिहत्य मूर्छा-
मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥
सीता-ससाध्वसकरुणमुपसृत्य ।) ऐत्तिसं एक दाणिं मह बहुदरम् ।
रामः - (उपविश्य ।) न खलु वत्सलया देव्याभ्युपपन्नोऽस्मि ।
सीता--हंदी हद्धी । किंति अजउत्तो मं णिन्दिस्मादि ।
राय:---भवतु । पश्यामि ।
१. जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य ।
२. एतावदेवेदानी मन बहुतरम् ।
३. हा धिक् हा विक् । किमित्यार्यपुत्रो मां निन्दिष्यति ।
आदादः आनन्दः, उच्छासः श्वाससंचारः, ताभ्यां सहितं यथा तथा ॥ जान इति । प्रत्यागतं पुनरागतम् । प्रयाणामपि लोकानां राममयजीवितत्वात् रामजीवने तजीबनामिति भावः । तदुक्तम्- 'रामो रामो राम इति प्रजानामभवनकथाः । रामभूत जगदभूद्रामे राज्य प्रशासति ॥ इति ॥ आथ्योतनमिति । हरिचन्दनपल्लवाना आक्ष्योतने नु कल्पतरुकिसलयरसद्धरणावीकरता किम् । कन्दलजः अङ्गुरजः ॥११॥ 'स्पर्श इति । संजीवनश्च प्राणधारणहेतुभूतथ परितोषणश्च आहादजनकश्च मूच्छी प्रशाशून्यता आनन्दनेन जडतां आनन्दाधिक्यप्रयुक्तप्रज्ञाशून्यता आतनोति आ समन्तात् विस्तारयति ॥ १२॥ एतावदेव मत्पर्शे पुरा परिचितत्यकथननेथ । इदानी वियोगसमये ॥ वत्सलया प्रीतिमल्या मदीयदोषं सहमानया वा । अभ्युपमसोऽस्मि अनुगृहीतोऽस्मि । इद इएजनातिसंधानात्मकमतिबलं नाम संध्या सुक्तम् ॥