पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
द्वितीयोऽङ्कः।

(प्रविश्य ।)

 शम्बूकः--जयतु देवः । भगवानगस्त्यो मत्तः श्रुतसंनिधानस्त्वाभाह---'परिकल्पितावरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा. सर्वे च महर्षयः । तदेहि । संभावयास्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुपगत्याश्वमेधसज्जो भव' इति ।

 रामः-यथाज्ञापयति भगवान् ।

 शम्बृका-इत इतो देवः ।

 रामः- (पुष्पकं प्रवर्तयन् ।) भगवति पञ्चवटि. गुरुजनादेशोपरोधारक्षण क्षम्यतामतिक्रमो रामस्य ।

 शम्बूक: देव, पश्य ।

  गुञ्जत्कुञ्जकुटीरकौशिकघटाघुक्कारवत्कीचक-
   स्तम्बाडम्बरमूकमौकलिकुलः क्रौञ्चाभिधोऽयं गिरिः ।
  एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै-
   रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः ॥ २९ ॥


दर्शनमात्र दुःसहम् , किं पुनः सहानुभूतरमणीयदर्शन दुःसहमिति। एकः केवलः । सीतागन्य इति भावः । ननु राज्ञः शुद्धान्त एव स्थित्यहीयाः कथं सहगमनं घटते । पुरं प्रति गमने तु सुलभमेव तानामिति किमिहात्साहितमिति अनाह--नाशितप्रियतम इति । नाशितत्वमपि दैवाधीन चेन् कथंचित् सह्यत एव, न तु तथा । कितु मधीन एव नाश इति दुःखातिरायो व्यज्यते । ननु तर्हि यत्र सा तत्रैव गम्यतामिखत्राहपाप इति । मरणप्रतिबन्धकपापबानित्यर्थः । तथाप्येषः प्राणः स्फुरति न तु पापो विरमति' इत्युक्तः । असंभाव्य असंमान्य रामः पञ्चवटीं विलोकयतु । वसन्यादृशशैल्यात सर्वथा न मत्स्वरूपविलोकनमसंभाव्य गमन वेति व्यज्यते । संप्रति नाशितप्रियतम इत्यनेन आर्ददुःखख व्यज्यते। सर्वथा प्रियारामेयारभ्य एतच्होकपर्यन्तमनुरागप्रकाशनविशिष्टवचनरूपं पुष्प नाम संध्यमुरुम् ॥ २८॥ मगवानिति । मत्तः श्रुतं सैनिधानं त्वत्सामीप्य येन सः । मत्त इति समागमनाल्यातुः दिव्यपुरुषस्यागस्त्य प्रति गुरुप्रायत्व कवेरभिमतमिति व्यज्यते । 'आख्यातोपयोगे' इति पञ्चमीविधानात् । परिकल्पितेति । आवरणमङ्गलं नीराजनादिकम् । लोपामुद्रा अगस्त्यपत्नी प्रतीक्षते कृतक्षणा तिष्ठति । त्यक्तसर्चव्यापारा तिष्ठतीत्यर्थः । अथ प्रजविना प्रकृष्टवेगवता । एकदेशिनेति ज्ञापनात कर्मधारयादिनिः ॥ प्रवर्तयन् गमयन् । गुरुजनस्य अगस्त्यस्य आदेशोपरोधात् आज्ञानुसरणावेतोः। अतिक्रमः असंभाव्यगसनरूपः । अष्टजनानुनथात् पर्युपासनं नाम संध्यमुक्तम् ॥ गुञ्जदिति । कुजा एव कुटीरा: गुजन्तः अव्यक्ताशब्दवन्तः कुमकुटीराः येषां ते कौशिकघटाः धूकपतयः तासां धुकारा: