पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
उत्तररामचरिते

  व्रणो रूढग्रन्थिः स्फुटित इव हमर्मणि पुनः
   पुराभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥

तथाविधानपि तावत्पूर्बसुहृदो भूमिभागान्पश्यामि । (निरूप्य 1) अनवस्थितो भूतसंनिवेशः । तथाहि ।

  पुरा यत्र लोतः पुलिनमधुना तत्र सरितां
   विपर्यास यातो धनविरलभावः क्षितिरुहाम् ।
  बहोदृष्टं कालादपरमिव मन्ये बनमिदं
   निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥

हन्त हन्त । परिहरन्तमपि मां पञ्चवटी खेहाइलादाकर्षतीय। (सकरुणम् ।)

  यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
   यत्संबन्धकथाभिरेव सततं दीर्धाभिरास्थीयत ।
  एकः संप्रति नाशितप्रियतमरतामेव रामः कथं
   पापः पञ्चवटीं विलोकय वा गच्छत्वसंभाव्य वा ॥२८ ॥


दिजन्यात निर्यातात् प्रचल: शल्यस्य वाणाग्रस्य शकल: खण्ड इव स्थितः । स हि मरणभयादतुत एव तिष्ठति। स्टाः प्रादुर्भूताः ग्रन्थयः उपव्रणाः यस्मात् स तथोक्तः। स्फुटितः दलितः हन्सामणि ब्रण इव हृदचमर्मवर्तिवणसदृशः काचित्कस्पर्शसार्वत्रिकप्रसरणाभ्यां प्रथम दृष्टान्तः । प्रतिकार्यत्वशङ्काव्युदात्साय द्वितीयः । स्वल्पकालत्वव्यावृत्तये तृतीयः । विशेषमाह-नूतन इवेति । विकलयति शून्य करोति ॥२६॥ अन्नवस्थितो भूतसंनिवेशः अनियता पदार्थस्थितिः । पुरोति । बहोः कालात् दृष्ट बहुकालमदृष्ट्या दृष्टम् । ल्यब्लोपे पत्रमी । यद्वा पूर्वदर्शनकालयहुनिप्रकृष्टकाले दृष्टम् । सप्तमीपञ्चम्यौ' इति परमी । तदिदापति बुद्धि प्रत्यभिज्ञाम् । अत्र प्रस्तुतवृत्तान्तवर्णनात् अप्रस्तुत प्राणिकुटुम्योपच्यापचयपरिस्फूर्तिरिति कुवलयानन्दकृत् ॥ २७ ॥ यस्यासिति । स्त्रे गृहे यथा यस्तारं ते दिवसाः नीताः निरुपप्लवलरामणीयकादिभिः खगृहृतुल्यायो यस्यां पचवब्यां नीताः अतिवाहिताः । न केवलं रात्रयो भीताः किंतु दिवसा अपि जीता इति दिवसपदेन व्यज्यते । तेन स्वगृहापेक्षया बैलक्षण्यमपि पञ्च-: वट्याः । तत्र हि-राज्यतन्त्रादिना दिवसेषु न सहावस्थान घटते तथा सह मयेति वान्वयः। स्वगृहे गुरुसंनिथितिरोहितप्रणवचारतच्यासंकोचात् स्वगृहाद्विशेषः । यत्संवन्धकथाभिः कीभिः । आस्थीयत । तिष्ठतेभीवे लइ । एवकारेण वाग्व्यापारान्तरप्रतिषेधः। यत्कथाभिः इत्लनुक्रया यत्संबन्धकथाभिरित्युक्तेः पचवटीपरिसरवर्तिनामपि रामणीचना व्यज्यते । अत्र 'मरन्कमलपत्राक्षी रामः संध्यासुमागमत्' इत्युक्तरीत्या सर्वकाल बुद्धिस्थत्यात तथेत्युक्तम् । तामेव, न तु यां कांचिदित्यर्थः । वियोगे हि स्मगीयवस्तु-