पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
उत्तररामचरिते

  अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् ।
  श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६॥

(उत्थाय 1) हन्त हन्त, संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः।


'अनुकम्पायां कन्' ॥ ४५॥ अपूर्वेति । अत्र मुग्धे बिनुञ्च मामिति सिद्धसाध्यसमभिव्याहारन्यायेन अद्यतनमोचनप्रसञ्जकवतीत्यर्थो लभ्यते । मौग्यस्य मोचनप्रसज कत्वं च तदापादकलंपर्कापादनद्वारा । स च संवन्धो रावणप्रलाख्यानपूर्वको लङ्कादेशीय एव । तथाहि-भवितव्यः परगृहबासो जातः, तथापि नैतावता ममात्याहित प्रसजति । रावणो न मां बलात्कर्तुमर्हति । ततश्च तदभिगततदसंपादनेनैव कालयापर्न सुकरम् । प्रत्याशया च स मां न हनिष्यति । रामस्तु इदानी मां निषा परीक्ष्यानुमन्यमानोऽपि कदाचित्कस्यचिदूचनमनुसरंलोकाराधनश्रद्धया मामरण्ये परित्यजेत् इत्यादिको विचारः सीतायाः स्यात् । तदा नैवंविधदुःखानुभवप्रसक्तिरिति तविद मौग्ध्यस्याद्यतनविपत्प्रयोजकत्वमित्याशयः । सर्वमिदं निर्वेदातिशयद्योतकम् । अपूर्वश्चासौ कर्मचण्डालश्चेति विग्रहः । चण्डालो हि क्रूरतमः। कर्मचण्डालस्तु सुतराम् । यस्तत्रापूर्वो विलक्षणः अहं कर्मचण्डालो राक्गादपि क्रूर इति भावः । स हि रावणरे में सीतायाः प्राणहानिकरोऽभवत् । अहं तु तत्कारी भवामीति पूर्वोक्तमौढ्यहेतुकरामसं- अयणमेवाह---श्रित्तासीति । द्रुमत्वोक्तिभ्यस्त्वाभिप्रायात् । दुर्विपाकत्ववचनमत्यन्तक्रौर्यातिशयप्रतिपत्त्यर्थम् । चन्दनभ्रान्त्येत्येतदुःखभूयस्त्वावर्जनीयत्वख्यापनार्थः । अन्यभ्रान्तौ प्रवृत्तिमान्यादिकं स्यात् । असीलनेनाद्यापि न मुञ्चसीत्यपि व्यज्यते । श्रितेति कर्तृवाचकनिष्ठान्तम् । तेन श्रयणस्य लकादेशीयत्वलाभः । अचमाशय:- लोके हि फलवजातीयानामपि वृक्षाणामफलत्वे छेद एदोचितः । अनर्थावहत्वे तु सुतराम्। विषवृक्षस्य तु छेदे का प्रतिहतिः । तस्यापि दुर्विपाकत्वे सर्वथा छेद्यत्वमेव । तथापि 'विषवृक्षोऽपि संध्य स्वयं छेत्तुमसांप्रतम्' इति न्यायेन यदि छेदप्रतिषेधः, तर्हि तस्य परित्यागे का प्रतिहतिः । अत्र क्रुररामकर्मकसंश्यणप्रतिविम्यस्य सीताप्रस्तुतकर्तृकटु- विपाकविषहमाश्रयणस्य वर्णनालालतालंकारः । 'प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम् । ललितम्' इति लक्षणात् ॥४६॥ हन्तेति दुःखे। संप्रति सीताविरहे । विपर्यस्तोऽन्यथाभूतः । साहित्ये 'यस्तथा सह स खगों निरयो यस्तया विना' इति रामायणोक्तरीत्या जीवलोकस्य खर्गत्वम् । त्रियोगे तु नरकत्वमेवेति । स्वर्गान्यस्य नरकस्मैत्र खारसिकत्वात्प्राणिनां नरकप्राप्तायपि नात्मवस्तुनाशः । मम तु सीतामयजीवितत्वासन्नाशे जीवितनाश इति । अद्यावसितमिति समाप्तं जीवितमेव प्रयोजनम् । जीवितमिति वक्ष्यमाणमिहानुसंधेयम् । सीताविरहितजीवितं निष्प्रयोजनमित्यर्थः । यत एवं ततोऽधुना जीर्णारण्य जगत्स्वर्गादिक ह्यात्मनः स्थिरत्वे कालान्तरानुभाव्य स्मात् । 'अनादौ संसारे' इति न्यायात् । आत्मवस्तुनाशे तु स्वानुपभोगात् जीकरण्यत्वम् । सीतासाहित्ये हि अरण्यस्यापि पश्वव्याः 'यस्यां ते दिवसाः' इति रीत्या खगृहत्वात् तद-