पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
प्रथमोऽङ्कः।

काष्ठप्राय शरीरम् । अशरणोऽस्मि । किं करोमि । का गतिः । अथवा ।

  दुःखसंवेदनायैव रामे चैतन्यमागतम् ।
  मोपघातिभिः प्राणैर्वज्रकीलायित्तं हृदि ॥४७॥

हा अम्ब अरुन्धति, भगवन्तौ वसिष्ठविश्वामित्रौ, भगवन्पावक, हा देवि भूतधात्रि, हा तात जनक, हा मातः, हा प्रियसख महाराज सुग्रीब, सौम्य हनूमन् , महोपकारिन् लङ्काधिपते बिभीषण, हा सखि त्रिजटे, परिमुषिताः स्थ परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाहाने ।


योगे तु खगृहस्यापि जीारण्यत्वमिलाशयः । असारः शून्यः । काष्टप्राय शरीरम् । 'ज्योत्स्नेव हिमदीक्षितेः' इत्युक्त्या यथा चन्द्रस्य कौमुद्यभावे काष्ठप्रायता तत्वस्यति भावः । अद्य पूर्ववत् । 'सुग्रीवं शरण गतः', 'सागरं शरण गत.' इत्यादिकस्य नायकाश इत्याह---अशरणोऽस्मीति । पूर्ववत्सेतुबन्धनादि कर्तव्य नास्तीत्साह-कि करोमीति । अद्य पूर्ववद्रावणवधादिरूपप्राप्य नास्तीलाह---का गतिरिति । गम्यत इति गतिः । यतश्चैवं ततः क्व गच्छामि, किमरण्य गच्छामि, उत पातालविवरम् , किचा मरण गच्छामि इति विकल्पाशयः। न तूक्तः कल्पः सर्वोऽपि न कल्पत इलाह-अथवेति। पूर्वोक्तक्षेपकः । दुखेति । नैतन्यमात्मा ज्ञप्तिर्वा । दुःखसंबेदनायैव रामे आगतम् । आगतमित्यनेन दुर्मुखबाक्यश्रवणानन्तरं गत चैतन्य पुनरागतमिति व्यज्यते । यता शक्तिप्रहारादिषु गत पुनरागतमिति वा । पट्टाभिषेकादिनान्तरीयकसुखं तु असत्कल्पमिति हृदयम् । 'अर्पितम्' 'आहितम्' इति पाठयोस्तु आदितः प्रकृति ‘राज्याब्रशो वने वासः सीता नष्टा द्विजो हतः । ईदृशीय ममालक्ष्मीनिर्दहेदपि पावकम् ॥ इत्युक्तरीत्या दुःखानुभवायैव चैतन्यसद्भाव इति भावः । स्वर्गिणां चैतन्यं दुःखासंभिन्नसुखानुभवाय । जनाना दुःखमित्रसुखानुभवाय । मम सुखासमिन्नदुःखानुभवाय । तस्मात्पातालविवरगमनेऽप्यपरिहार्य दुःखमिति भावः । तर्हि मरणं गमिष्यामीति कल्पः कल्प्यताभित्याह-मभोंपधातिभिरिति । मम हृदयादिप्रदेशानुपनन्तीति विग्रहः । 'सुप्यजाती-' इति णिनिः । न केवल दुःखानुभवापादकाः कि तु स्वयमपि दुःखप्रदा इति भावः । वज्रकीलबदरुद्धरतया स्थिरीभूयते । अज्ञानहत्वेन वा सादृश्यम् । तथा च मरणमपि दुर्लभमिखर्थः ॥४॥ हेति । अरुन्धति । अरुन्धतीकृतसीतापातिवस्यानुमोदनं न प्रमाणीकृतमिति भावः । भगवन्ताविति । भवतां ज्ञानशक्तिमपि खैला न पश्यन्तीति भावः । पावकेति । तव वचनमबेशी व्यर्थाविति भावः । भूतधात्रि स्वत्युतायाननिमित्तदोषवादिनो जनान्कय बिमर्षि इति भावः । सौम्येति। सीतावृत्तान्तकथनजनितानन्दप्रयुक्तमत्कृतालिजनमद्विज्ञातशरीरसौभग भवदीयप्रथा-