पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
प्रथमोऽङ्कः।

 दुर्मुखः-हा, कहं अग्गिपरिसुद्धाए गभविदपवित्तसंताणाए देवीए दुजणदअणादो इदं बवसिदं देव्वेण ।

 रामः---शान्तं पापम् , शान्तं पापन् । दुर्जना नाम पौरजानपदाः ।

  इक्ष्वाकुवंशोऽभिमतः प्रजानां
   जातं च दैवाद्वचनीयबीजम् ।
  यच्चाद्भुतं कर्म विशुद्धिकाले
   प्रत्येतु कस्तधदिदूरवृत्तम् ॥ ४४ ॥

तद्गच्छ ।

 दुर्मुखः- हा देवि । (इति निष्क्रान्तः ।)

 रामः-हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।

  शैशवात्प्रभृति पोषितां प्रियां
   सौहृदादपृथगाश्रयामिमाम् ।
  छमना परिददामि मृत्यवे
   सौनिके गृहशकुन्तिकामिव ॥ ४५ ॥

तत्किमस्पृश्यः पातकी देवी दृष्यामि । (इति सीतायाः शिरः समुन्नमध्य बाहुमाकृष्य।)


 १. हा, कथमग्निपरिशुद्धाया गर्भस्थितपवित्रसंतानाया देया दुर्जनवचनादिदं व्यवसितं देवेन ।


विपना भविष्यसीति वा व्यज्यते । पूर्वार्धे विभावनाविशेषोऽलंकारः। "विरूद्धात्कायसंपत्तिष्टा काचिद्विभावना' इति लक्षणात् ॥ ४३ ॥ इक्ष्वाकुवंश इति । विशुद्धिकाले यदद्भुतं कर्म तयदि तदस्तीति ययुच्यते दूरवृत्तं कः प्रत्येति । न कोऽपीलर्थः ॥ ४४ ॥ हा कष्टमिति । नृशंसः क्रूरः । अतिबीभत्सकर्मेति प्रसिद्धनृशंसायावृत्तिः । शैशवादिति । शैशबात्मभूति पोषिता बाल्यमारभ्य वर्धिताम् । अनेन "विषवृक्षोऽपि संचय॑ स्वयं छेतुमसांप्रतम्' इति न्याचः स्फोर्यते । ननु स्वात्रियत्वे त्याज्यत्व मित्यत्राह-प्रियामिति । ननु तथापि दोषप्रसक्तो का गतिरित्यत्राहपृथगाश्रयामिति । पृथगाश्रयरहितामित्यर्थः । ननु तथापि मनोवृत्तिरन्यत्रेसत आह-सौहृदादिति । इमामितीदंपदेन तात्कालिकान्तर्वत्नीत्वनित्रावत्वादिक परामृश्यते । छद्मना व्याजेन । सीताभिलषितवनप्रस्थापनब्याजेनेत्यर्थः । मृत्यवे परिददामि देयसाकल्यादानसाकस्यम् । तदिमाम् । गर्भस्थ शिशुद्वयं चेत्यर्थः । सौनिके जीवहिंसाजीविनि । 'कर्मणा यमभिप्रैति स संप्रदानम्' इति चतुर्थ्यर्थे सप्तमी । प्रथमान्तपाठोऽप्यस्ति । गृहशकुन्तिकाम् ।