पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
प्रथमोऽङ्कः।

  एतानि ते सुवचनानि सरोरुहाक्षि
   कर्णामृतानि मन्सश्च रसायनानि ॥ ३६॥

 सीता-पिवद, एहि । संविसम ।

 रामः-अपि संदेष्टव्यम् ।

  आविवाहसमथागृहे वने
   शैशवे तदनु यौवने पुनः।
  स्वापहेतुरनुपाश्रितोऽन्यया
   रामबाहुरुपधानमेष ते ॥ ३७॥

 सीता—(निद्रा नाटयन्ती ।) अस्थि एदम् । अजउत्त, अस्थि एदम् । (इति खपिति ।)

 रामः--कथं प्रियवचनैव मे वक्षसि प्रसुता । (निर्वर्ण्य )


 १. प्रियंवद, एहि । संविशावः।

 २. अस्त्येतत् । आर्यपुत्र, अस्त्येतत् ।


त्वमिति मावः । मनसश्च रसायनानि रसायनं नाम अनेकरसवस्तुसमुदायात्मकरसवस्तुविशेषो बाहटे प्रसिद्धः । बहुवचनेनानेकरसायनसदृशानीति व्यज्यते । किचानेकरसायनवस्त्वास्वादनेन सर्वेषां रसानां तत्रोपलम्भः । एवं शब्दान्तरश्रवणजन्यसुखानामेतद्वचनैलाभइति व्यज्यते । अपि च यथा रसायनस्य रसमयत्वाद्भोग्यत्त्रम् , औषधात्मकत्वाद्रोगनिवर्तकत्वं च, एवमेतेषामपि प्रिवत्व हितत्व चेति व्यजयितुं रसायनत्वोक्तिः । सरोरुहाक्षि आयामत्वविपुलत्वाभ्यां सादृश्यमभिप्रेतम् । एवं च खस्या अपि खवचनवैलक्षण्वप्रयुक्तविस्मयातिशबाचक्षुषोरायतत्वविपुलत्वद्विगुणीभाव इति भावः । ते सुवचनानि खकीयवचनवैलक्षण्यातिशयतः सीतायाः खवचनेषु वीयतासंशयः स्यादिति ते इत्युक्तिः । सुशन्देन सीताबचनेष्वपि एतादृशं सौभाग्यं नानुभूतपूर्वमिति व्यज्यते । 'क्षणे क्षुणे यभवतामुपैति तदेव रूपं रमणीयतायाः' इति न्यायेन न दोषः ॥ ३६॥ प्रियंवद प्रियवादिन् । 'प्रियवशे बदः खन् । संविधावः । 'स्वनः संवेश इत्लपि' इत्यमरः ॥ अपि संदेशव्यम् । 'संदेश उक्तिः । भृकुटीभटोऽचं सूचयितव्यः । किमर्थमुक्तिप्रयास इति भावः। यदा यथा शयनदशायामुपधानादीनामुपकरणत्वं तद्वन्ममापीति विधिवा किमर्थ इति भावः ॥ उपकरणत्वमेवाह-आविवाहेति । आविवाहसमयाद्विवाहसमयादारभ्येत्यर्थः । गृहे शैशवे चौवने च स्वापहेतुः । वने पुनयौवने खापहेतुरियन्वयः । न तु यथासंख्यम् । अन्ययानुपाश्रितः स्थापहेतुतयानुपाश्रित इत्यर्थः । अतः 'जुष्टं परममारीणां भुजैः परनसुन्दरैः' इत्यनेन न विरोधः । चेटीविधयासंवाने तात्पर्यात् 'म रामः परदारान्दै चक्षुभ्यागपि पश्यति' इत्युक्तेः । मदास्पधानमित्यनुक्त्वा रामबाहुरि-