पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
उत्तररामचरिते

  इयं गेहे लक्ष्मीरियममृतवार्तनयनयो-
   रसाबस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
  अयं बाहः कण्ठे शिशिरमसृणो मौक्तिकसरः
   किमस्या न प्रेयो यदि परमसधस्तु बिरहः ॥ ३८॥

(प्रविदय।)

 प्रतीहारी-देव, उवडिदो।

 रामः--अयि, कः।

 प्रतीहारी--आसण्णपरिआरओ देवस्स दुम्मुहो ।

 रामः-(स्वगतम् ।) शुद्धान्तचारी दुर्मुखः स मया पौरजानपदेष्वपसर्पः प्रहितः । (प्रकाशम् ।) आगच्छतु ।

(प्रतीहारी निष्कान्ता)

(प्रविश्य ।)

 दुर्मुख:-(स्वगतम् ।) ही कहं दाणि देवीमन्तरेण ईरिसं अचिन्तणिजं जणाववादं देव्वस्स कहइस्सं । अहवा णिओओ क्खु मह मन्दभाअहेअस्स एसो।


 १. देव उपस्थितः।

 २. आसन्नपरिचारको देवस दुर्मुखः ।

 ३. हा कथमिदानी देवीमन्तरेणेशमचिन्तनीयं जनापबाद देवस्स कथयिध्यामि । अथवा नियोगः खलु मम मन्दभागधेयस्यैषः ।


त्युक्तिः प्रसिद्धिद्योतनार्था। 'उपधाय भुजं तस्य' इत्यादिवचनात् ॥ ३५ ॥ इयमिति । इयं गेहे लक्ष्मीर्लक्ष्मीसदृशी । इयममृतवर्तिनयनयोः। तथा नयनानन्दकरीत्यर्थः । किमेतत्पर्यन्तानुधावनवचनेन । एतदीयमेव यत्किंचिन्मम पर्याप्तमित्याहअसावस्या इति । वपुषि प्रसिद्धचन्दनव्यावृत्तिः । अस्याः कि न प्रेयः । एतत्संबन्धि किन प्रियम् । सर्वमपि प्रियमेवेत्सर्थः । अत्र सीतापेक्षया तत्संबन्ध्यैव प्रियमिति रामचन्द्रमतमिति कवेराशयोऽवगम्यते । उपसंहारे किमस्या न प्रेय इत्युक्तत्वात् । इतरथा कथमेषेत्येव न वदेत् । भर्तृमीढश्च-'मनसिजरुजः सा वा दिव्या ममालमपोहितुं रहसि लघयेदारब्धा वा तदाश्रयणी कथा' इत्याह । अत्र रामबाहुरुपधानमिति सीता प्रति खबाह्रोरुपधानत्वमुषल्या 'अयं बाहुः कण्ठे शिशिरमहणो मौक्तिकसरः इत्युक्त रामेण । तदिदं वैलक्षम्यातिशयकार्यम् । अत्र 'इय गेहे लक्ष्मी.' इत्यादिभिरेकस्या एवं सीतायाः गृहविषये दीपकलिकाकार्यकारित्वं चक्षुर्विषये ज्योत्लादिकार्यकरत्वं कण्ठे हारकार्यकारित्वं च व्यज्यते । रूपकमुळेखो वा अलंकारः ॥ ३८ ॥ आसनपरिचारको दुर्मुख-