पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
उत्तररामचरिते

 तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
  विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥ ३५ ॥

 सीता---धीरप्पसादा तुझेत्ति एत्थ दाणिं अच्चरिअम् ।

 रामः

  म्लानस्य जीवकुसुमस्य विकासनानि
   संतर्पणानि सकलेन्द्रियमोहनानि ।


 १. धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् ।


नयोः स्पष्टः । अत्र सीत इति संवुध्यन्तमध्याहार्यम् । तवेत्युक्तेः।हे सीते, तव स्पर्श स्पर्श स्वदीययावस्पर्शेषु परिमूटः खखविषयग्रहणासमर्थ इन्द्रियगणश्चक्षुरादीन्द्रियसमूहः येन स तथोक्तो मम विकार आन्तरावस्थाविशेषः । चैतन्यमन्तःकरणावच्छिन्न चैतन्यम् । जीवचैतन्यमिति यावत् । अद्वैतमतप्रक्रिवयेदमुक्तम् । मदन्तरात्मानमिति फलितोऽर्थः । भ्रमवति प्रतिकूलतया भासमानः सन् क्षुब्ध करोति । संमीलयति च अनुकूलतया भासमानःसन् उल्लासयति च । अयमित्यध्याहार्यम् । अयं विकारः सुखमिति विनिश्चेतुं न शक्यः दुःखमिति वा विनिश्चेतुं न शक्यः । प्रमोहो वा प्रकृष्टमूछीत्वेन संशयितुं योग्यो निद्रा वा सुषुप्तित्वेन संशयितुं योग्यो विषबिसर्पः किमु । विषेण विसृप्यत इति विग्रहः । कर्मणि घन् । विषप्रसरणजन्यत्वेन संशयितु योग्य इत्यर्थः । मदः किमु । मदत्वेन संशयितुं योग्य इत्यर्थः । अस्य विकारस्य स्पर्शजन्नत्वात्परिमूढेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाच तथाविधशात्रवादिस्पर्शजन्यमानसदुःखत्वेन संख्ययोग्यत्वम् । एवं स्पर्शजन्यत्वात्परिमू- हेन्द्रिचगणत्वादन्तरात्मोल्लासकारित्वाच तथाविधमित्रादिस्पर्शजन्यमानससुखत्वेन संशथाईत्व भवति च मित्रादिस्पर्शजन्यसुखं परिमूळेन्द्रियगणम् । 'नीवी प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि' इत्युक्तेः । एवं स्पर्शजन्यत्वात्परिमूटेन्द्रियगणत्वादन्तरात्मक्षोभकरत्वाचास्य दण्डाद्यभिवातजन्यपरिमूढेन्द्रियगणत्वान्तरात्मक्षोभकरख- विशिष्टसूक्ष्मप्राणसंचाररूपमूर्छात्वेन संभावनाहत्वम् एवमस्य विकारस्य सजिन्यत्वात्परिमूडेन्द्रियगणत्वादन्तरात्मानुकूलत्वाच्च मृदुतरतल्पादिस्पर्श- जन्यत्वनिवृत्तेन्द्रियव्यापारत्वपरमात्मसुपरिष्वङ्गप्रयुक्तसुखरूपत्वविशिष्टनिद्रात्वेन संशयाईत्वम् । एवमस्य स्पर्शजन्यत्वात्परिमूढेन्द्रि- यगणत्वादन्तरात्मप्रतिकूलत्वाञ्च तथाविधविषस्पर्शजन्यविकारत्वेन संशयाईत्वम् । एवमस्य स्पर्शजन्यत्वात्परिभूडेन्द्रिनगणत्वादन्तरात्मा- नुकूलत्वातथाविधमदत्वेन संशचयोग्यत्वम् । मदस्य क्षीरसुराबाप्यायकवस्वायत्तत्वात्स्पर्शजन्यत्वं परिमूढेन्द्रिचगणत्वमन्तरात्मानुकूलत्व च। तदुक्तम्-'भदिरादिकृतो मोहहर्षव्यतिकरो मदः' इति । सर्वमिदं सीताया भोग्यताप्रकर्षे तात्पर्यमाविष्करोति । हिशब्दः प्रसिदौ । तथा च मदीयोऽय विकारस्त्वयापि ज्ञायत इति ब्यज्यते ॥३५॥ म्लानस्येति । मलानस्य हर्षक्षयवतो जीवकुसुमस्य जीव एव कुसुमं तस्य विकासनानि विकासजनकानि हर्षोत्पादकानि संतर्पणानि तृप्तिजनकानि भोग्यान्तरापेक्षानुत्पादकानि अत एव सकलानामिन्द्रियाणां मोहनानि खव्यापारनिरोधीनि कर्णयोरमृतानि । 'यथामृतस्य दृष्ट्या तृप्यन्ति' इति दर्शनमात्रेण तृप्तिजनकत्वम् । तद्वदेषामर्थपर्यालोचन विनापि रमणीय-