पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
प्रथमोऽङ्कः।

  बाप्पाम्मः परिपतनोद्रमान्तराले
   संदृष्टाः कुवलयिनो मया विभागाः ॥ ३२॥

 लक्ष्मण:-अयमार्यों हनूमान् ।

 सीता-एसो सो चिरणिव्यूढजीवलोअपच्चद्धरणगरूओवआरी महानुभावो मारुदी।

 राम:-

  दिष्टया सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
  यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥३२॥


 १. एष स चिरनियूंढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो सारुतिः।


विरहव्यथातुरमद्धेतोर्न विद्यते कल कूजित येषां ते तेषांमालिकाक्षाणां हसविशेषाणां पक्षलुंधूतानि । कम्पितानीति यावत् । अत एव स्फुरदुरुदण्डानि निवृत्ताधारतया चलदुरुदण्डानि पुण्डरीकानि गेषु तथोक्ताः त्रुघलयिनः पुण्डरीकवदिवा विकासाद्यभावेनाकिंचिकरत्वाद्धसैरन्याधूततया कुवलयसत्तामात्रवन्तः। एतस्मिन्विभागा बाष्पाम्भःपरिपतनोद्मान्तराले संदृष्टाः सम्यग्दृष्टाः । परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चयपर्यन्त दृष्टा इत्यर्थः । नितोपलयतया सम्यग्दृष्टा इति भावः । मल्लिकाक्षाः खलु विरहोद्विग्नस्य मम कृते स्वयं विरहसभुद्दीपक कूजितं त्यक्त्वा तदुद्दीपकानि पुण्डरीकान्यप्वनाशयन् । ततोऽहं निवृत्तोपालवतया नान्तरीयकतथावस्थितिपर्यन्तं तान्विहंगान्दृष्टवानिति भावः । युक्तं चैतत् । विरखिन्नं रामं प्रति महिकाक्षाणाम् 'अपि भावा रोदिति' इति न्यायेन करुणायाः संभवात् । इलचक्रवाकशापदर्शनेन चक्रवाकशापदाता रामोऽस्माकमपि शापं दास्यतीति भीत्या शब्दासंभवात् । 'कण्ठेषु स्खलितं गतेऽपि शिशिरे पुस्कोकिलानां स्तम्' इत्यादिविषयविशेषैतिरश्चामपि विरहिजनानुरोधः प्रसिद्धश्शेति वदन्ति ॥३१॥ एष इति । चिरान्निव्यूंढ निष्पादित यजीबलोकप्रत्युद्धरणं तेन गुरु यथा भवति तथा । उपकरोतीत्युपकारी । दशभासपरिमितरावणगृहबासस्यातिभूयत्स्वाभिसंधिना चिरादित्युक्तम् । स्वसत्तयैव जीवलोकमन्नतासंभावनया स्वोद्धरणेन तदुदरणसंभावनया च जीवलोकप्रत्युद्धरणमित्युक्तम् ॥ दिष्टयेति । दिष्टयेत्यानन्दे । यस्य वीर्येणेत्यादि । वयम् । लक्ष्मणभरतशत्रुन्नसीताविभीषणसुग्रीववानराः अह चेलर्थः । कृतिनः सुकृतिनः । यद्वा कृतमुपकारस्तद्वन्तः । उपकृत इत्यर्थः । अन्योन्यवृत्तान्तकथनेन सीतारामयोः, खानवधानभवुक्तसीताविरहपरिहारेण लक्ष्मणस्य, वहिप्रवेशपरिहारेण भरतशत्रुघ्नयोः, शरणागतवपरिग्रहसिद्धान्तेन विभीषणस्य, सुखोत्पादनेन सुग्रीवस्य, मधुवनभशापराधबारणेन वानराणाम, वसंजीवनादिना भुवनानां च कृतित्वमिति यथायथमूहनीयम् ॥ ३२ ॥ अनुभावः प्रभावः । सौभाग्यं सौन्दर्यम् । प्रशदितेन रोदनका । 'आदिकर्मणि क्तः' । रोदनप्रारम्भ एव ।