पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
उत्तररामचरिते

 लक्ष्मणः—(सलबास्मितम् । अपवार्य ।) अये, ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः संचारयामि । (प्रकाशम् ।) आर्ये, दृश्यतां द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः ।

 सीता--(ससंभ्रमम् ।) ऋम्पिदह्मि ।

 रामः ऋषे, नमस्ते । लक्ष्मण:-आर्ये, पश्य । अयमार्येण (इत्यर्थोक्ते ।)

 रामः-(साक्षेपम् ।) अयि, बहुतरं द्रष्टव्यम् । अन्यतो दर्शय ।

 सीता-(सनेहबहुमानं निर्वयं । सुदु सोहसि अजउत्त, एदिणा विणअमाहप्पेण ।

 लक्ष्मणः-एते वयमयोध्यां प्राप्ताः ।

 रामः-(सास्रम् ॥ स्मरामि हन्त स्मरामि ।

  जीवत्सु तातपादेषु नूतने दारसंग्रहे।
  भातृनिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९॥


 १. कम्पितास्मि ।

 २. सुष्टु शोमसे आर्यपुत्र, एतेन विनयमाहात्म्येन ।


स्वात् सुषात्वेन ग्रहणम् ॥ अयमिति । भार्गवः परशुरामः ॥ कम्पितास्मि । येनेति शेषः । अयमायणेत्यादि । अन्न वैष्णव अनुरारोपवित्वा समाकृष्टतेजस्क इति वक्तुमुद्युतवान् लक्ष्मणः, तावदात्मप्रशसामसहमानो रामः प्रतिषिद्धवानिलाशयः ॥ साक्षेप सप्रतिषेधम् । 'क्षिपु निरसने' इत्यस्मात् भावे घञ्प्रत्ययः । अन्यतो दर्शच । अन्यत्र लिखितं दर्शयेति भावः ॥ विनयमाहात्म्येन विनयस्य खोत्कर्षतानाविष्करणरूपस्य खस्मिन्निकर्षानुसंधानरूपस्य वा माहात्म्य भूयस्ता तेनेत्यर्थः॥ एते वचमयोध्या प्राप्ताः । तथालिखिता इत्यर्थः ॥ जीवत्स्विति । तातपादेषु । पितरीत्यर्थः । पूजायां पादशब्दो बहुवचने । 'उत्तमानां स्वरूप तु पादशब्देन फण्यते' इति । जीवत्सु सप्राणेघु । 'यस्य च भावेन' इति सप्तगी । दारसंग्रहे नूतने सति मातृभिश्चिन्त्यमानानां नस्ते दिवसा गता इत्यन्वयः । गता दिवसास्ते हीति स्मरणाकार प्रदर्शन वा । अबन्धोरपि रक्षकस्य जीवनमानन्दाय । सर्वविधसंरक्षणशीलस्य पितुर्जीवर तु निरवधिकाहादजनकम् । किच दाराणां सत्ततपरिचयेऽपि प्रियकवेषत्वम्, नूतनसंग्रहे तु अमन्दानन्दहेतुत्वम् । खरूपसत्येव माता निरतिशयसौख्यकारिणी । तत्रापि सा लोकप्रसिद्धसर्वविधसंरक्षणानि कृत्वा ततोऽप्यधिकानि चिन्तयति चेत् निःसीमानन्दलाभः । एवमपरिच्छिन्नानन्दकन्दलहेतुत्वा निसानां तच्छब्देन निर्देशः । अन्न मातृभिरिति न यथाखसंबन्धः सर्चासां रामसर्वविषयहितचिन्तावत्वम् । संकोचे मानाभावात् । कैकेव्याः क्रौर्योपाधिकम् । एवं चेदयतिशथितानन्दहेतुः सपत्नीमातृ-