पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
प्रथमोऽङ्कः।

इयमपि तदा जानकी

  पतनविरलैः प्रान्तोन्मीलन्मनोहरकुमलै-
   र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती नुखम् ।
  ललितललितैयॊत्साप्रायैरकृत्रिमविभ्रमै-
   रकृत मधुरैरङ्गानां मे कुतूहलमङ्गकैः ॥ २० ॥


प्रयुक्तोपप्लवस्थ सगरादिषु प्रसिद्धत्वेन तदभावस्याभिमतत्वात् । तातपादजीवनादीनां मध्य एकैकमेवानन्दहेतुः । समुदितानि तु सुतरामिति भावः॥१९॥'नूतने दारसंग्रहे' इत्युक्तं विशिष्टि-इयमपि तदेत्यादिना । पतनेति । शिशुः शैशवान्तवती । शिशुप्रायेत्यर्थः । 'पतिसंयोगसुलभ बयो दृष्ट्वा च मे पिता' इत्युक्तेः । पतनेन प्रस्थितदशनपतनेन । प्रान्तोन्मीलदित्युक्तेः बिरलैः सान्तरालैः । प्रान्तेत्याधत्र उन्मीलच्छब्दः प्ररोहद्दन्तपरः दशनकुसुमैरिति। रूपकसाहचर्यात् । तथा च उन्मीलदेव उद्यनूतनदशनाङ्कुर एव मनोहरकुमलमुन्मीलन्मनोहर कुझ्मलं प्रान्ते उन्मीलन्मनो- हरकुङ्मलं येषामिति बहुव्रीहिः । यद्धा कुड्मलशब्दो मुकुलसदृशदशनपरः । प्रान्तोग्मीलन्ति मनोहरकुड्मलानि येषामित्वधः । रूपकातिशयोक्तिरलंकारः । दशनकुसुमैरिति तु रूपकमुपमा घेति संकर इत्यपि वदन्ति । दशना एब कुसुमानि तैीवल्यशिखरित्वादिसादृश्यागुपणम् उपमा वा हेतुभिः । मुग्धः सुन्दर आलोको यस्य तत्तथोक्तम् । यद्वा दशनकुसुमैरिति इत्यंभूतलक्षणे तृतीया । दशनकुसुमैरुपलक्षितमित्यर्थः । मुग्धालोकं सुन्दरकटाक्षं मुखं दधती इयं सीता ललितादपि कुसुमादपि ललितैः सुकुमारैः । यद्वा ललितं नाम हासाद्यन्यतमविशेषः । तदुक्तम्'सुकुमाराजविन्यासो ललित परिकीर्तितम्' इति । तेन ललितैः । विलसितैरित्यर्थः । 'लड विलासे' कर्तरि कः । लडयोरेकत्वम् । ज्योत्स्नानायज्योत्स्नासदशैः । यद्वा ज्योत्स्ना क्रान्तिः । लावण्यमिति यावत् । तत्प्रायः । तत्प्रचुरैरित्यर्थः । प्रायशब्दः प्रचुरचाची। जलप्रायो देश इतिवत् । लावण्यस्वरूपं तु 'भूयिष्ठं तेज एवाद्भिर्बहुलाभिकृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यते ॥ इति । अकृत्रिमाः स्वाभाविका विभ्रमा बिलासा येषा तानि । तैरित्यर्थः । विभ्रमशब्दो गोबलीवदन्यायेन माधुर्यललितान्यपरः । चदा 'विश्रमस्त्वरचाकालभूषास्थान' इत्युक्तविभ्रमपरः । सोऽकृत्रिमः येषु तभोक्तरित्यर्थः । मधुरैः । नियरित्यर्थः । 'अभूषणेऽपि रम्यत्व माधुर्यमिति कथ्यते' इत्यु कमाधुर्वयुरित्यर्थः । अमुकम्प्रितैरजैरङ्गकैः । 'अनुकम्पायाम्' इति कन्प्रत्ययः । अतिसुकुमारतथा गाठालिङ्गनादिषु दयनीयरित्यर्थः । तदाह कालिदासः-'सदर्य सुन्दरि गृधते रसोऽस्य,' 'पीतं मथा सदयमेव रतोत्सवेधु' इति । उद्दण्डकविश्च 'इमां का ऽहमरभ्य उरसि सदयम्' इति । यद्वा अल्पैरङ्गैरकैः । अल्पे' इति सूत्रेण क्रन्प्रत्ययः । अल्पत्वं चेह तनुत्वमभिप्रेतम् । तदुक्तम्-स्वभावतनुका नूनम्' इति । अनेन 'मुश्लिष्टसैधिबन्धत्व सौन्दर्यमिति कथ्यते' इत्युक्तसौन्दर्यमप्युक्तं भवति । तेन विना तनुत्वस्य दोषत्यात् । मेऽङ्गानां कुतूहलमकृत कृतवती । 'टुकृञ् करणे' सिचो लोपः । कर्त्र-