पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
प्रथमोऽङ्कः।

 सीता-णमो एदाणम् ।

 रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ।

 सीता-अणुगहीदलि।

 लक्ष्मण:----एष मिथिलावृत्तान्तः ।

 सीता-----अमहे, दलन्तणवणीलुप्पलसामलसिणिद्धमसिणसोहमाणमंसलेण देहसोहम्गेण विझअथिमिदताददीसन्तसोम्मसुन्दरसिरी अणादरत्थुडिदसंकरसरासणो सिहण्डमुद्धमुमण्डलो अजउत्तो आलिहिदो।


 १. नम एतेभ्यः ।

 २. अनुगृहीतास्मि ।

 ३. अहो, दलन्नवनीलोत्पलश्यामलस्निग्धमसूणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादरत्रुटितशंकरशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः।


धारः । तमोनिवर्तका इत्यर्थः । 'शरदस्तपांसि' इति वा पाठः। तपास्यन्तःकरणनैमल्यापादनद्वारा भगवत्साक्षात्कारहेतुभूतकायशोषणव्रतानि । परःसहनम् । सहस्रात्परा इत्यर्थः । कर्तृकरणे कृता बहुलम् इति बहुलग्रहणात्समासः । सुप्सुपेति वा । परस्परादित्वात्सहस्रशब्दस्य सुडायमः । सहस्रसंख्याधिकसंख्याका इत्यर्थः । “विशवाद्याः सदैकत्चे सर्वाः संख्येयसंख्ययोः' इत्यनुशासनादेकत्वम् । शरदः संवत्सरान् । अत्यन्तसंयोगे द्वितीया । तथा च सहस्र संख्याधिकसंवत्सरेषु निरन्तरं तस्वेत्यर्थः । ब्रह्म परमात्मा, प्रधानं च । तत्कार्यत्वाञ्जगत् ब्रह्मशब्देनोच्यते । तदुक्तम्'तादादुपचारोऽस्ति क्वचित्खखामिभावतः। अजाजीभावतात्काद्वैपरीत्यादपीष्यते ॥' इति । तस्य हिताय तदपेक्षितेष्टानिष्टप्राप्तिपरिहारसाधनाय तपःफलभूतज़म्भकोपदेशेन राजभिर्विरोधिनिरसनेन जगतः पुरुषार्थसाधननिर्वर्तनलिद्धेरिति भावः । अथवा ब्रह्म वैदस्तस्य हिताय धारणाय । धारणार्थकवाञ्धातोर्नपुंसके भावे क्तः । 'दधातेहिः' इति हिभावश्च । अतुत्सादायेति भावः । तपोमयानि तपःस्वरूपाणि । खार्थिको मपटू । खानि खकीयानि तेजांसि एतान्यदर्शझम्भकास्त्राण्यपश्यन् । कार्यकारणनिबन्धनमिदं सामानाधिकरण्यम् । 'दृशिर प्रेक्षणे' इति धातोः लुड् । तथा च बहुतरतपःकार्यभूतानामेतेषां केवलगुरुप्रसादसाध्यखम् । नतु शुश्रूषादिसाध्यत्वमिति भावः ॥१५॥ त्वत्प्रसूर्ति त्वत्प्रसवम् । त्वत्पुत्रावित्यर्थः । द्विवागर्भनन्धिस्तदनुदिवसैः' इति वक्ष्वमाणरीत्या धमलत्ववत्पुप्रजात्वमपि नितिमिति सूच्यते । अन्यथा स्त्रीप्रजात्वे जम्भकाभ्यनुज्ञानमसंगतं स्यात् । उपस्थास्यन्ति प्राप्स्यन्ति । मामिव स्तोध्यन्तीति वार्थः । अल्लाह इति । दलितनीलोत्पलबच्छयामलं स्निग्धं च चाकचक्या-